वार्ताहर:-कुलदीपमैन्दोला।
हरिद्वारे ऋषिकुलविद्यापीठब-्रह्मचर्याश्रमसंस्कृतमहाविद्यालये ज्वालापुरस्थया स्वामिविवेकानन्द-स्वास्थ्यपरिषदा एकस्य निश्शुल्कस्वास्थ्यशिविरस्य आयोजनं कृतम्॥
अस्य विशेषस्वास्थ्यशिविरस्य शुभारम्भः महाविद्यालयस्य प्राङ्गणे एव ज्येष्ठचिकित्सकैः शाहसञ्जय-महाभागैः कुमार-रविमहाभागैः पाण्डेपूनम-महाभागाभिः सिंहरम्यतामहाभागाभिश्च महाविद्यालयस्य प्राचार्यैः चमोलीबलदेवप्रसादमहोदयैः शिविरसंयोजकैः पन्तनवीनचन्द्र-महोदयैश्च संयुक्ततया कृतः। अस्मिन्नवसरे महाविद्यालये अध्ययनरतानां छात्राणां स्वास्थ्यपरीक्षणं रक्तपरीक्षणं तथा च विभिन्नरोगाणां निदानं कृत्वा आवश्यकतानुसारं चिकित्सा औषधयश्च प्रदत्ताः। केवलं छात्रा एव न अपि तु समीपस्थाः अन्ये नागरिकाः अपि स्वास्थ्यपरीक्षणेन लाभान्विता अभवन्।
तत्र ज्येष्ठचिकित्सकाः शाहसञ्जयमहाभागाः छात्रान् उद्बोधयन्तः अवदन् यत् वर्षाकाले सम्भाव्यमानानां रोगाणां विषये सर्वेषां सावधानता आवश्यकी। स्वस्थे शरीरे एव स्वस्थं मस्तिष्कं निवसति इति तु प्रसिद्धमेव। शास्त्रेष्वपि शरीरमाद्यं खलु धर्मसाधनम् इत्युक्त्वा शरीरस्वास्थ्यस्य महत्त्वं प्रतिपादितम्। अतः स्वशरीरस्य रक्षणे कदापि प्रमादो न करणीयः इति।
कार्यक्रमस्यान्ते महाविद्यालयस्य प्राचार्याः चमोलीबलदेव-प्रसादमहोदयाः सर्वान् चिकित्सकान् औषधिवितरणे नियुक्तान् अधिकारिणश्च प्रति हार्दिकीं कृतज्ञतां ज्ञापितवन्तः तेभ्यो धन्यवादं च अर्पितवन्तः।
शिविरेऽस्मिन् मुख्यरूपेण पाण्डेयोगेशः आचार्यः शर्ममनोजः आचार्यः तिवारीप्रकाशः शर्मसोहनलालः शर्मामितः सिंहमहेन्द्रः स्वाती कोमल ढौंढियालसचिनः जोश्यङ्कितः कमलकिशोरः अथर्वः चिन्मयः इत्यादयः अन्ये च बहवश्छात्रा उपस्थिता आसन्॥











