वार्ताहर: प्रवेशकुमारशुक्ल:, भोपालम्
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे ११ सितम्बरतः १५ सितम्बरपर्यन्त पञ्चदिवसीया शोधप्रस्तावलेखनकार्यशालाया: आयोजनमभवत्। कार्यशालायाः संरक्षकपदे विश्वविद्यालयस्य कुलपति: प्रोफेसरः श्रीनिवासः बरखेड़ी महोदयः विराजमानः आसन्। सभायाः अध्यक्षतां भोपालपरिसरस्य निदेशकः प्रो० रमाकान्तः पाण्डेयमहोदयः वहितवान्।
अवसरेऽस्मिन् शिक्षाशास्त्रविद्याशाखायाः विभागाध्यक्षः सहनिदेशकश्च प्रो० गोविन्दपाण्डेयमहोदयः अपि सान्निध्यं दत्तवन्तः।
कार्यशालायां विषयविशेषज्ञरूपेण दिल्लीस्थितस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य अन्तर्राष्ट्रीयवृत्तसहयोगकार्यालयात् प्रोफेसरः नितिनजैनमहोदयः, प्रयागराजस्थितस्य इलाहाबाद-विश्वविद्यालयस्य पूर्वकुलपति: प्रो० प्रभातसाहूमहोदयः च आगत्य शोधार्थिभ्यः शोधप्रस्तावलेखनविषये मार्गदर्शनं प्रदत्तवन्तौ।
कार्यशालायाः समन्वयका: डॉ. कृष्णकान्ततिवारी, डॉ. कृष्णानन्दधन्नाना, डॉ. गोविन्दसरकारः, डॉ. राकेशकुमारवर्मा च आसन्।
अस्मिन् कार्यक्रमे शिक्षाशास्त्रविद्याशाखायाः सर्वे आचार्याः, कर्मचारिणः, छात्रछात्राश्च उत्साहपूर्वकं सहभागं कृतवन्तः।











