हरिद्वारम्। भारतीयसंस्कृतेरात्मा संस्कृतभाषा। न केवलं भाषामात्रम् अपितु भारतीयायाः संस्कृतेः परम्परायाः दर्शनस्य च प्राणभूता खलु संस्कृतवाणी। प्रायः एषा धारणा लोकेषु वर्तते यत् संस्कृतशिक्षणं कठिनमिति। किन्तु संस्कृतभारत्या आयोजितानि संभाषणशिविराणि एनं भ्रमं दूरीकुर्वन्ति॥
अचिरेणैव हरिद्वाराख्ये तीर्थक्षेत्रे दशदिवसात्मके संभाषणशिविरे छात्राः सरलया सहजया च शैल्या संस्कृतभाषणम् अशिक्षन्। प्रशिक्षकः आचार्यः बलियानीकेशवः छात्रान् कठिनव्याकरणनियमान् विहाय दैनन्दिनव्यवहारे प्रयोज्यैः वाक्यैः प्रशिक्षणं प्रारभत। यथा भवतः नाम किम्। भवतः गृहं कुत्र अस्ति। भोजनं कीदृशम् अस्ति इत्यादीनि। अनेन विधिना छात्राः न केवलं संस्कृतम् अवगन्तुं समर्था अभवन् अपितु अभ्यासमाध्यमेन आत्मविश्वासपूर्वकं वक्तुमपि प्रारभन्त॥
समापनसमारोहे संस्कृतभारत्याः जनपदमन्त्री डॉक्टरः जोशीप्रकाशमहोदयः मुख्यातिथिरूपेण समुपस्थितः आसीत्। सः शिविरे सम्मिलितान् सर्वान् प्रतिभगिनः शुभाशंसाभिः अवर्धयत् अकथयच्च। संस्कृतं भाषामात्रं न हि भारतस्य संस्कृतिसंस्कारयोः आधारशिला वर्तते इति। सः प्रशिक्षार्थिनः संस्कृतं प्रति समर्पितभावेन सेवायां योक्तुम् अप्रेरयत्॥
शिविरे भागग्राहिणः छात्राः स्वानुभवान् कथयन्तः ऊचुः यत् पूर्वं तेभ्यः संस्कृतं कठिनं प्रतिभाति स्म। किन्तु प्रतिदिनसंवादैः गीतैः क्रीडाभिः सामूहिकगतिविधिभिश्च ते सरलतापूर्वकम् अधीतवन्तः॥
एतादृशानि शिविराणि प्रमाणयन्ति यत् संस्कृतभाषा न कठिना। आवश्यकी तु केवलं सुष्ठु पद्धतिः नियमितश्चाभ्यासः। यदा छात्राः सरलविधिना संस्कृतम् अधिगच्छन्ति तदा ते न केवलं भाषायां निपुणाः भवन्ति अपितु भारतीयसंस्कृतेः मूल्यैः सह गभीरतया संबद्धाः अपि जायन्ते॥
समापनोत्सवः अतीव उत्साहेन गरिम्णा च संपन्नोऽभवत्। अस्मिन् अवसरे आचार्यः लखेडातुलसीप्रसादः आचार्यः बहुखण्डीजगन्नयनः इत्यादयः अनेके विद्वांसः छात्राश्च समुपस्थिताः आसन्। शिविरस्य प्रतिभागिभिः स्वानुभवाः कथिताः संस्कृतेन आत्मविश्वासपूर्णः संवादः प्रस्तुतः येन शिविरस्य सार्थक्यं प्राकट्यत। आयोजकैः निगदितं यत् एतादृशैः कार्यक्रमैः न केवलं संस्कृतभाषायाः प्रचारः प्रसारश्च भवति प्रत्युत समाजे भारतीयसंस्कृतेः मूल्यानां प्रति जागरूकतापि वर्धते॥











