अग्रिमवंशश्रेणिक-वस्तुसेवाकरस्य (जीएसटी)-परिष्कारः

केन्द्रीय वित्तमन्त्री निर्मला सीतारामन्वर्या, कोलकाता-नगरस्य राष्ट्रियपुस्तकालये, अग्रिमवंशश्रेणिक-जीएसटी-परिष्कार-समित्या आयोजिते कार्यक्रमे नूतन-जीएसटी परिष्कारस्य लक्ष्याणि रेखांकितवती । सा अवदत्, यत् वस्तुसेवाकरस्य (जीएसटी) परिष्कारस्य उद्देश्यं देशस्य कर-राजस्व-व्यवस्थायाः सरलीकरणं आधुनिकीकरणं च वर्तते । केन्द्रीय-वित्तमन्त्रिणा निर्मला सीतारमण इत्यनया प्रोक्तं यत् नूतन-जीएसटी परिष्कारेण कर-न्यूनतायाः करणात् जनानां प्रायः द्विलक्ष-कोटि-रूप्यकाणां संरक्षणं भविष्यति। केन्द्रीय-वित्त-मन्त्रिणा विज्ञापितं यत् कथं पञ्च-प्रतिशतस्य अष्टादश-प्रतिशतस्य च द्वि-स्तरीय-कर-प्रणाली समान्य जनानां भारं न्यूनीकरिष्यति । तथैव अनेन दैनिक-जीवने आवश्यक वस्तूनां च मूल्यं न्यूनीभविष्यति एतस्मिन् निर्धनजनाः मध्यवर्गीय-जनाश्व अधिकाधिक लाभं प्राप्स्यन्ति।
उपभोक्तृकार्याणाम्, खाद्यं तथा सार्वजनिक-वितरण-मन्त्रालयेन संशोधित-जीएसटी-मूल्यविषये, संशोधित-परामर्षः विज्ञापितः, यद्धि सोमवासरात् प्रभावी भविष्यति । परामर्षानुसारं निर्मातारः, आयातकादयः च स्व-इच्छानुसारं सितम्बर् मासस्य द्वाविंशति-दिनाङ्कात् पूर्वं निर्मितानाम् अविक्रीत-वस्तूनाम् उपरि अतिरिक्त-संशोधित-मूल्यस्टिकर्-चिह्न स्थापयितुं शक्नुवन्ति किन्तु तदुपरि मुद्रितं मूल-एम.आर.पी मूल्यं अस्पष्टं न भवेत् । मन्त्रालयेन स्पष्टीकृतं यत् नियमेषु एतादृशं पुनः संशोधित-मूल्यस्टिकर्-चिह्न स्थापनं तावदनिवार्यं नास्ति, तथा च ये संस्थाः संशोधितमूल्यानि घोषयितुम् इच्छन्ति तेषां कृते एतत् शुद्धरूपेण वैकल्पिकम् अस्ति।
अस्य विषये प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् “अग्रिमवंशश्रेणिक जी. एस्. टी.-परिष्कारः” नवरात्र्याः प्रथमदिनात् प्रवर्तयिष्यति । राष्ट्रम् संबोधयन् श्री मोदी अवदत् यत्, नवरात्र्यै आरभ्य जी. एस्. टी. बचत्-उत्सवः आरभ्यते, जनाः स्वेच्छया वस्तूनि न्यूनमूल्येन क्रेतुं शक्नुवन्ति। सः अवदत् यत् एतैः परिष्कारैः राष्ट्रस्य विकासगाथा परिवर्तिता भविष्यति तया च युवकाः, नवमध्यमवर्गः, कृषकाः, महिलाः, उद्यमिनः च अस्य बचत्-उत्सवेन लाभान्विताः भविष्यन्ति। राष्ट्रस्य विकासयात्रायां प्रत्येकं राज्यं समानसहभागी भविष्यति इति सः अवधानं दत्तवान्। सः अग्रिमांशस्य जी. एस्. टी. परिष्काराणां कृते, बचत्-उत्सवस्य नवरात्रि-उत्सवस्य च कृते राष्ट्राय शुभाशयाः प्रेषितवान्।
प्रधानमन्त्री अवदत् यत् तस्य सर्वकारेण करव्यवस्थां सरलीकृतम्। सः अवोचत् यत् तस्य सर्वकारः चतुर्दशाधिक द्विसहस्र तमे वर्षे सत्ताग्रहणानन्तरं राज्यैः हितधारकैः च सह परामर्श कृत्वा जी. एस्. टी. इत्यस्य कृते प्राधान्यम् अददात् । विगतेषु द्वादश वर्षेषु पञ्चविंशति कोटिजनाः दारिद्र्यात् बहिः समागताः इत्यस्मिन् विषये प्रधानमन्त्री हर्ष प्रकटितवान्। सः अवदत् यत् नवमध्यमवर्गस्य स्वकीयाः अभिलाषाः सन्ति, तथा च तेषां करभारं शमनाय सर्वकारेण कृताः उपायाः अधोरेखितवान्। श्रीमोदी अवदत् यत् तस्य सर्वकारः नागरिक देवो भवः इत्यनेन मन्त्रेण अग्रे गच्छति।
केन्द्रीयकृषि-कृषक कल्याण-मन्त्री शिवराज सिंह चौहानः उक्तवान् यत् ट्रैक्टर-वाहनानां कृषि-उपकरणानां च जी. एस्. टी. मूल्यस्य ह्रासः प्रत्यक्षतया कृषकाणां कृते लाभप्रदः भवेत्। नवदिल्ल्यां कृषि यन्त्राणां उपकरणानां च प्रतिनिधीनां सभायाः अध्यक्षतां कुर्वन् श्री चौहानः अवधानं दत्तवान् यत् जी. एस्. टी. इत्यस्य द्वादश अथवा अष्टादश प्रतिशतात् पञ्च प्रतिशतं यावत् न्यूनीकरणेन ट्रैक्टर-वाहनानां मूल्यं बहु न्यूनं भविष्यति । श्री चौहानः अवदत् यत् अनेन उपक्रमेण विभिन्न-ट्रैक्टर-वाहनेषु त्रयोविंशति त्रिषष्ठिः वा सहस्र रूप्यकाणि यावत् मुल्येषु ह्रासः भविष्यति। वार्ताहरान् सम्बोधयन्, श्री चौहानः उक्तवान् यत्, कृषकेभ्यः लाभः अस्य सितम्बर-मासस्य द्वाविंशति दिना‌ङ्कात् आरभ्य प्रत्यक्षतया भविष्यति।