प्रधानमन्त्रिणा नरेन्द्रमोदिना विगत चत्वारि दिनाङ्के द्विषष्ठी-सहस्र-कोटिरूप्यकाणां विविध-युवा-केन्द्रित-उपक्रमाणां अनावरणम् कृतम्, येन सम्पूर्ण देशे शिक्षायाः, कौशलस्य, उद्यमशीलतायाः च कृते निर्णायकप्रेरणाः प्राप्ताः । नवदिल्ल्याः विज्ञानभवने आयोजिते कौशल-दीक्षान्त समारोहे, प्रधानमन्त्रिणा अद्यतनीकृत-आई.टी. आई-पी. एम्. सेतु इत्यनेन माध्यमेन प्रधानमन्त्रिणः कौशलस्य तथा वृत्यवसरक्षमतायाः परिवर्तनस्य आरम्भः कृतः। विविध-युवा-केन्द्रित-उपक्रमाणां उद्घाटनानन्तरं जनसमूहं सम्बोधयन् प्रधानमन्त्री अवदत् यत्, राष्ट्रनिर्माणस्य कृते कौशलस्य महत्त्वपूर्ण योगदानम् अस्ति। सः अवदत् यत्, तस्य सर्वकारः कौशलं नवान्वेषणं च प्रबलतया केन्द्रीकृत्य भविष्यस्य नेतृत्वाय युवशक्तिं सज्जीकरोति ।
सः उक्तवान् यत् भारतं ज्ञानस्य कौशलस्य च देशः अस्ति तथा च बौद्धिकशक्तिः देशस्य महती शक्तिः अस्ति इति। तेनोक्तं यत् आई.टी.आई. इतिमानि न केवलं औद्योगिकशिक्षायाः प्रमुखसंस्थाः अपितु आत्मानिर्भरभारतस्य कार्यशालाः अपि सन्ति इति। भारतरत्न-कर्पूरी ठाकुरस्य योगदानस्य स्मरणं कुर्वन् प्रधानमन्त्री अवदत् यत् सः स्वस्य सम्पूर्ण जीवनं समाजसेवायाम् समर्पितवान्। श्रीमोदी अवदत् यत् तस्य नाम्नः स्थापितं कौशलविश्वविद्यालयं तस्य दूरदृष्टिं प्रवर्तयितुं प्रबलं साधनरूपेण कार्य करिष्यति।
देशे सम्प्रति ‘जी. एस्. टी. बचत्-उत्सवः’ प्रचलति, बिहारस्य युवानां कृते द्विगुणित-बोनस् त्यिस्य समयः अस्तित अपि प्रधानमन्त्री उक्तवान्। प्रधानमन्त्रिणा बिहारस्य, देशस्य च युवानः जी. एस्. टी. इत्यस्य ह्रासाय अभिनन्दिताः।
अस्मिन् अवसरे, श्रीमोदी चतुःत्रिन्शत्-राज्येषु केन्द्रशासितप्रदेशेषु च चतुःशत-नवोदयविद्यालयेषु, द्विशत-एकलव्य आदर्श-आवासीय-विद्यालयेषु च स्थापितानां द्विशतं यावत् व्यावसायिक-कौशल-प्रयोगशालानां उद्घाटनम् अकरोत्। प्रधानमन्त्रिणा बिहारस्य नवीकृतां मुख्यमंत्री-निश्चय-स्वयं-सहायता-भत्ता योजना अपि आरब्धा, यस्य अन्तर्गतं प्रतिवर्ष प्रायः पञ्चलक्षं स्नातक-युवानः निःशुल्क-कौशल-प्रशिक्षणेन सह द्विवर्षपर्यन्तं एक-सहस्र-रूप्यकाणि मासिक-भत्ताः प्राप्नुयुः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि अस्मिन कार्यक्रमे कौशल-विकास-उद्यमशीलता-मन्त्रालयस्य अन्तर्गतं औद्योगिक प्रशिक्षण-संस्थानानाम् षड्चत्वारिन्शत् अखिलभारतीय-शीर्षस्थाने स्थितेभ्यः जनेभ्यः सम्मानं कृतम्। केन्द्रीयकौशलविकासस्य उद्यमशीलतायाः च मन्त्रिणा जयन्त सिद्धेन् अपि देशस्य वैश्विककौशलकेन्द्र निर्मातुं श्रीमोदिनः दूरदृष्टिः पुनरुच्चारिता । बिहारस्य मुख्यमन्त्री नितीश कुमारः अस्मिन् कार्यक्रमे आभासीय माध्यमेन सम्मिलितः।











