संवादक:- प्रवेशकुमारशुक्ल: ,लखनऊ
सत्रस्य शुभारम्भः आकृत्या सरस्वतीवन्दनाया कृता । ततः संस्थानगीतिकां आराध्या , पञ्चाङ्गकथनं प्रीति अवस्थ्या प्रस्तुतम्। मुख्यअतिथिपरिचयः च संस्थानपरिचयः अशोककुमारमिश्रेण कृतः।
कक्षागत-अनुभवकथनं अजितशेन सुरेशेन च कृतम्। स्तोत्रपाठः कालिका-त्रिपाठ्या, लघुकथा प्रिया, श्लोकवाचनं वैभवीमहोदयया, संस्कृतगीतं अनूप, हेमलता-सुधा च प्रस्तुतवन्त:। सुभाषितम् – राधाशर्मा उक्तवती।
मुख्यवक्ता डॉ. दिवाकरमिश्रेण उक्तं यत्- संस्कृतं जन भाषा भवेत् तदर्थं उत्तरप्रदेश संस्कृत संस्थानस्य आनलाइन कक्ष्या मध्यमेन यत् महत् कार्यं प्रचलति तस्य प्रकटीकरणं अस्माकं सामूहिकं दायित्वं वर्तते एतत् केवलं उत्तरप्रदेशसर्वकारस्य दायित्वं न अपितु समग्रं अध्येतृणां, समाजिकानां राजनेतृणां दायित्वम्।
अन्ते प्रशिक्षिका दीपिका मिश्रा धन्यवादं व्याहरत्। कार्यक्रमे निदेशकविनयश्रीवास्तवः, भाषाविभागमुख्यसचिवः आलोकः, प्रशासनिकाधिकारी जगदानन्दझा, योजना प्रमुख: भगवानसिंहचौहानः,
प्रशिक्षणप्रमुख: सुधिष्ठमिश्र: एवं च संयोजकगणत: मान्या: धीरजमैठाणी, दिव्यरञ्जन, राधाशर्मा च अन्येपि प्रशिक्षकाः संस्कृतसमुपासका: उपस्थिता: आसन्।
शान्तिमन्त्रं एकात्मता प्रस्तुतवती। तांत्रिकसहाय्यं प्रशिक्षकेन सत्यममिश्रेण कृतम्। संचालनं प्रशिक्षिकेन राजनदुबे- वर्येण कृतम्।











