त्रिदिवसीय आवासीय संस्कृत-शिक्षक-कौशल-विकास-प्रशिक्षणस्य शुभारम्भः

वार्ताहरः-डाॅ. हरीशचन्द्र गुरुरानी (शोध अधिकारी)

हरिद्वार-उत्तराखण्ड संस्कृत अकादमी द्वारा संस्कृत संवर्धन प्रतिष्ठानम्, नवी दिल्ली इत्यादीनां प्रशिक्षकानां माध्यमेन प्रदेशे सञ्चालितेषु संस्कृत विद्यालयेषु च महाविद्यालयेषु च संस्कृत-शिक्षकान् त्रिदिनपर्यन्तं निर्धननिकेतन आश्रमे, खड़खड़ी, शिक्षक-प्रशिक्षणं प्रदास्यते।
प्रशिक्षण-कार्यशालायाः शुभारम्भः ऋषि संस्कृत महाविद्यालयस्य वैदिक-छात्रैः वैदिक-मंगलाचरणेन, सरस्वती- वन्दना च कृत्वा अतिथिभिः दीप-प्रज्ज्वलेन समारम्भितः।
शुभारम्भ-सत्रे उत्तराखण्ड संस्कृत अकादमी सचिवः डा. आनन्द भारद्वाजः प्रशिक्षणस्य व्याख्यानं ददाति स्म। सः उक्तवान् – “ज्ञानस्य क्रियायाम् आधारेण मानवजीवनस्य व्यवहारं यत्रानयति, तस्यै प्रशिक्षणं इति कथ्यते। अतः संस्कृतं व्यावहारिकभाषा इव करणीयं, तस्मात् एतेषां प्रकारेण संस्कृत-शिक्षक-प्रशिक्षणं अत्यावश्यकम्।”
सः अपि उक्तवान् – “संस्कृत शिक्षायाम् नूतन-शिक्षा-नीतिः 2020 इत्यस्य अन्तर्गतं पाठ्यक्रमस्य पाठ्यचर्यायाः क्रियान्वयनम्, संस्कृतं विश्वस्तरे प्राप्तुं शिक्षण-अधिगम-प्रशिक्षणस्य सम्यक् अवगाहनं च अतीव आवश्यकं भवेत्। संस्कृताऽस्माकं संस्कृतिः ज्ञानपरम्परायाः च मूलाधारः। संस्कृतः वैज्ञानिकभाषा अस्ति। संस्कृतस्य समृद्ध्या अन्यासः भारतीयाः भाषाः अपि समृद्धाः भविष्यन्ति।”
संस्कृत-संवर्धन-प्रतिष्ठानस्य, नवी दिल्ली, कार्यपालक- अधिकारी डा. लक्ष्मीनरसिंहन् संस्कृत-अध्यापकान् संस्कृत-माध्यमेन एव अध्यापनं कर्तुम् आग्रहयत्। सः उक्तवान् – “शिक्षाशास्त्रे अनुसारं संस्कृत-माध्यमेन शिक्षणं कृत्वा भावः, विषयः, ज्ञानं च भाषायाः समन्वयेन श्रेष्ठं शिक्षणं साध्यते।”
प्रशिक्षण-कार्यशालायाः समन्वयकः किशोरीलाल रतूड़ी वर्णयत् – “त्रिदिनपर्यन्तं चलन्त्या आवासीय-प्रशिक्षण-कार्यशालायां प्रदेशस्य 13 जनपदात् 65 संस्कृत विद्यालय-महाविद्यालयेषु 103 पंजीकृताः प्रधानाचार्याः शिक्षकाश्च भागं गृह्णन्ति। सर्वे शिक्षकेभ्यः प्रशिक्षण-सामग्री अकादमीतः निःशुल्कं प्रदास्यते। प्रशिक्षण-कार्यशालायाम् संस्कृत-संवर्धन-प्रतिष्ठानस्य पञ्च प्रशिक्षकैः सोलह सत्रेषु संस्कृतमय-परिवेश-निर्माणम्, संस्कृत-अधिगम-प्रक्रियायाम् प्रौद्योगिकी, मूल्यांकन-प्रक्रिया, गतिविध्यात्मक-शिक्षणम् अधिगम-प्रतिफलञ्च विषयेषु शिक्षणं प्रदास्यते।”
उद्घाटन-सत्रस्य संचालनं अकादमी-शोध- अधिकारी डा. हरीशचन्द्र गुरुरानी कुर्वन् उक्तवान् – “संस्कृत-शिक्षकान् आधुनिक-माध्यमेन संस्कृत-शिक्षणं कर्तुं, छात्राणां सर्वाङ्गीण-विकासाय च एतादृश-प्रशिक्षणम् अत्यन्तं आवश्यकम्।”
अस्मिन अवसरः संस्कृत-संवर्धन-प्रतिष्ठानस्य, नवी दिल्ली, प्रशिक्षकाः डा. मनमोहनशर्मा, डा. पारुलसिंह, सुनीलशर्मा च, संस्कृत अकादमी प्रशासनिक- अधिकारीः लीलारावत्, डा. तारादत्त अवस्थी, अमित-थपलियाल, श्रीविवेक-पञ्चभैय्या, गणेशप्रसाद -फोन्दणी, मोहितरावत्, अवधेशः, आकांक्षा, ओमप्रकाशभट्टः, अश्विनी, सुनील इत्यादयः उपस्थिताः स्म।