के.सी.ई. संस्थायाः अध्यक्षेन प्रज्ञावता नन्दकुमार बेंडाळे-महोदयेन ₹५०००/- विशेषपुरस्कारः घोषितः

स्वामी विवेकानन्द कनिष्ठमहाविद्यालयस्य आयुषः भामरे देशात् द्वितीयः

वार्ताहरः-अर्जुन शास्त्री

जळगावात् :
के.सी.ई. सोसायटी-नियन्त्रितस्य स्वामी विवेकानन्द कनिष्ठ-महाविद्यालयस्य द्वादशोत्तर-विज्ञानशाखायाः छात्रः आयुषः महेन्द्रभामरे इत्यनेन भारतीयज्ञानपरम्परा (संस्कृत) ऑलिम्पियाड्–२०२५ इत्यस्मिन् राष्ट्रस्तरीये स्पर्धायाम् द्वितीयस्थानं प्राप्तम्।
अस्य अभिमानस्पदस्य सफलस्य पृष्ठभूमौ के.सी.ई. संस्थायाः अध्यक्षः प्रज्ञावान् नन्दकुमारः बेंडाळे-महोदयः आयुषं प्रति -५०००/- विशेषपुरस्कारं घोषयित्वा सम्मानम् अकुरुत।
ते अवदन् — “संस्कृतस्य च भारतीयस्य ज्ञानपरम्परायाः विषये यः उत्साहः युवा-पिढ्याम् उत्पन्नः सः गर्वस्य विषयः अस्ति। आयुषः एषः विजयः केवलं संस्थायाः न, अपि तु सर्वस्य जळगावजनपदस्य अपि गौरववर्धकः अस्ति।”
एषा स्पर्धा केन्द्रीयसंस्कृत-विश्वविद्यालयेन, नवदिल्ल्यां स्थितेन, प्रथमवारं राष्ट्रस्तरे आयोजिता आसीत्। अस्मिन् प्रतियोगितायां देशभरतः सहस्रशः छात्राः सहभागी अभवन्।
वेद-उपनिषद्-शास्त्र-भारतीय-गणित-सांस्कृतिकपरम्परा इत्यादिषु विषयेषु आधारितायां अत्यन्तकठिनायां प्रश्नपत्रिकायाम् आयुषेन शतशतं (१००/१००) अंकान् प्राप्त्य स्वस्य असाधारणं पाण्डित्यं प्रकटितम्।
अक्टोबरमासस्य १५ दिने जयपुरनगरे केन्द्रीयसंस्कृत-विश्वविद्यालयस्य स्थापनेदिनोत्सवः समारभ्यते स्म। तस्मिन् भव्ये सोहले सर्वे राष्ट्रीयविजेतारः सम्मानिताः अभवन्। आयुषं तत्र सम्मानचिह्नेन, प्रमाणपत्रेण च ₹५०००/- रूप्यकपुरस्कारेण सन्मानितवन्तः।
अस्य विजयस्य सन्दर्भे प्रधानाचार्यः डॉ. सं.ना. भारम्बे-महोदयः, उपप्रधानाचार्यः प्रा. आर.बी. ठाकरे, पर्यवेक्षिका प्रा. स्वाति बर्हाटे, समन्वयकः प्रा. उमेश पाटील, संस्कृताध्यापकः प्रा. अर्जुनशास्त्री मेटे, तथा सर्वे अध्यापकाः, कर्मचारीवर्गः, छात्रवर्गश्च आयुषं हार्दिकं अभिनन्दनं अकुर्वन्।
प्रधानाचार्यः डॉ. भारम्बे अवदन् — “आयुषस्य एषः विजयः अस्माकं संस्कृत-अध्येतॄणां कृते प्रेरणास्रोतः भविष्यति। भारतीयसंस्कृतेः च परम्परायाः गौरवं विश्वस्तरे प्रतिष्ठापयितुं अस्माकं छात्राः संकल्पबद्धाः सन्ति।”