भोपालपरिसरे पौरोहित्यम् एवं कर्मकाण्डम् (एकवर्षीयः स्नातकोत्तरडिप्लोमा) इति कक्षायाः शुभारम्भः ।

वार्ताहर:- प्रवेशकुमारशुक्ल: , भोपालम्

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे शैक्षणिकसत्रे 2025-26 पौरोहित्यम् एवं कर्मकाण्डम् (स्नातकोत्तरडिप्लोमा) इत्यत्र पञ्जीकृतानां छात्राणां कृते 17.10.2025 दिनाङ्के कक्षारम्भकार्यक्रमः समनुष्ठितः । वैदिकमङ्गलाचरणेन कार्यक्रमः समारब्धः । कार्यक्रमेऽस्मिन् मुख्यवक्तृरूपेण डॉ. दीपककुमारशर्मावर्यः, सहायकाचार्यः, संस्कृतविभागः (वेदः) डी.ए.वी.पी.जी. कॉलेज (काशीहिन्दुविश्वविद्यालयः), वाराणसी आभासीयमाध्यमेन ‘भारतीयसंस्कृतौ पौरोहित्य स्वरूपविमर्शः’ इति विषयमादाय व्याख्यानमदात् । डॉ.शर्मावर्यः पौरोहित्य-कर्मकाण्डपरम्परा अत्यन्तप्राचीना अस्ति । ऋग्वेदसंहितायां प्रथममन्त्रे समागतयोः पुरोहितम् अग्निः इति शब्दयोः विस्तृतव्याख्यां प्रास्तौत्। करणीयाकरणीयकृत्यम् उदबोधयत्। विवाहयज्ञश्राद्धगृह-प्रवेशादिपूजानुष्ठानकार्यक्रमाः अत्रैव अन्तर्भवन्ति । यज्ञहवनेन वातावरणशुद्धिर्भवति । सारस्वतातिथित्वेन भोपालपरिसरस्य ज्योतिषशास्त्रविद्याशाखाध्यक्षः प्रो. भारतभूषणमिश्रवर्यः छात्रान् उदबोधयन् उक्तवान् यत् ‘आहारशुद्धौ सत्वशुद्धिः’ इति तदैव कर्मकाण्डे शुद्धतागन्तुं शक्नोति । सभाध्यक्षः प्रभारीनिदेशकः प्रो. सुबोधशर्मवर्यः अवोचत् अध्ययनाभ्यासयोः निरन्तरता आनेतव्या । कर्मकाण्डे प्रायोगिकज्ञानस्य महत्त्वपूर्णं स्थानं भवति अतः छात्रैः अत्र विशिष्टावधानं देयम् । कार्यक्रमसंयोजकः डॉ. जितेन्द्रतिवारीवर्यः, समागतिथीनां वाचिकं स्वागतं विधाय पौरोहित्यम् एवं कर्मकाण्डम् इति पाठ्यक्रमस्य परिचयं प्रादात् । पाठ्यक्रमेऽस्मिन् चत्वारिंशत् छात्राः पञ्जीकृताः सन्ति । कार्यक्रमसंचालनं पौरोहित्यम् एवं कर्मकाण्डम् (स्नातकोत्तरडिप्लोमा) इत्यत्र अधीयानः छात्रः श्रीआशुतोषद्विवेदी अकरोत् । शान्तिमन्त्रेण सह कार्यक्रमः सुसम्पन्नः ।