जयपुरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थापनादिनोत्सवे भव्यः सत्कारः सम्पन्नः
वार्ताहरः-अर्जुन शास्त्री
जळगावात् : के.सी.ई. सोसायटी-प्रशासिते स्वामी विवेकानन्द कनिष्ठमहाविद्यालये अध्ययन् करणः विद्यार्थी आयुषः महेन्द्रभामरे (कक्षा द्वादश, विज्ञानशाखा) इत्यनेन भारतीयज्ञानपरम्परा (संस्कृत) ऑलिम्पियाड् २०२५ इत्यस्मिन् राष्ट्रीयस्तरे द्वितीयस्थानम् प्राप्तं, अतः सः अद्भुतं यशः अर्जितवान्।
तस्य सत्कारः १५ अक्टूबर् २०२५ तमे दिने जयपुरे केन्द्रीयसंस्कृतविश्वविद्यालयेन आयोजिते स्थापनादिनोत्सवे अत्यन्तं उत्साहेन सम्पन्नः।
अस्मिन् महोत्सवे देशस्य सर्वतो भागतः आगता नामवन्तः संस्कृतपण्डिताः, कुलपतयः, प्राध्यापकाः, राज्यविजेतारः विद्यार्थीजनाः च उपस्थिताः आसन्।
तत्र आयुषं सन्मानचिह्नेन, प्रमाणपत्रेण, च पञ्चसहस्ररूप्यकाणां नगद्-पारितोषिकेन सम्मानितवन्तः।
विश्वविद्यालयस्य कुलपतिः स्वहस्तेन तस्मै सन्मानचिह्नं दत्त्वा तस्य परिश्रमस्य च भारतीयसंस्कृतपरम्परायां गाढज्ञानस्य च प्रशंसा अकुर्वन्।
‘भारतीयज्ञानपरम्परा-ऑलिम्पियाड्’ इति प्रतियोगिता केन्द्रीयसंस्कृतविश्वविद्यालयेन, नवीदिल्लीस्थितेन, प्रथमवारं राष्ट्रीयस्तरे आयोजिताभूत्।
देशस्य सर्वतो भागतः सहस्रशः विद्यार्थीजनाः तस्मिन् भागं गृहीतवन्तः।
वेद-उपनिषद्-शास्त्र-भारतीयगणित-सांस्कृतिकपरम्परा इत्यादिषु विषयेषु कठिनेषु प्रश्नेषु आयुषेन शताधिकशतं (१००/१००) गुणाः प्राप्ताः — असाधारणं पाण्डित्यं तेन प्रदर्शितम्।
एतस्मिन् राष्ट्रीययशसि सम्पूर्णः जळगाव-जिल्हो तथा के.सी.ई. सोसायटी अपि गौरवेण प्रकाशिता अभवत्।
संस्थाया अध्यक्षः प्रा. नन्दकुमारः बेंडाळे, प्राचार्यः डा. सं.ना. भारम्बे, उपप्राचार्यः प्रा. आर.बी. ठाकरे, पर्यवेक्षिका प्रा. स्वाती बर्हाटे, समन्वयकः प्रा. उमेशः पाटीलः, संस्कृताध्यापकः प्रा. अर्जुनशास्त्री मेटे, च सर्वे शिक्षकवृन्दः सहाध्यायिनः च आयुषं हृदयपूर्वकं अभिनन्दितवन्तः।
उपप्राचार्यः प्रा. आर.बी. ठाकरे अवदत् —> “आयुषस्य एतत् यशः केवलं महाविद्यालयस्य न, अपितु सम्पूर्णनगरस्य राज्यस्य च गौरवम्। भारतीयज्ञानपरम्परायाः स्पर्धायां तेन प्राप्तं स्थानं भाविनः छात्राणां प्रेरणास्रोतं भविष्यति।”











