रक्षामंत्री राजनाथसिंहः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः च , विगत अष्टादश दिनाङ्के लखनऊ-नगरस्य ब्रह्मोस्-एरोस्पेस्-यूनिट् इत्यस्मिन् एकांशे निर्मितानां ब्रह्मोस्-प्रक्षेपास्त्राणां प्रथम-समूहं ध्वजारोहण-पूर्वकं देशसेवायै समर्पितवन्तौ । अस्मिन् अवसरे रक्षामंत्री अवदत् यत् ब्रह्मोस् इत्येतत् न केवलं प्रक्षेपास्त्रम् अपितु देशस्य वर्धमानानां स्वदेशि क्षमतानां प्रतीकम् अस्ति। सः अवदत् यत्, ब्रह्मोस् इत्यस्य उन्नत-निर्देशित-प्रणालिः अस्ति, यया एतत् सूपरसॉनिक्-वेगेन अतिदूरं यावत् प्रहारं कर्तुं शक्नोति । वेगस्य, यथार्थतायाः, शक्तेः च संयोगेन ब्रह्मोस् इत्येतत् विश्वस्य सर्वोत्तमासु प्रक्षेपास्त्रप्रणालिषु अन्यतमा वर्तते, सिंह-वर्यः दृढविश्वासं प्रकटितवान् यत् देशम्य शत्रवः अधुना ब्रह्मोस् इत्यस्मात् पलायितुं न शक्नुवन्ति । ध्यातव्यं यत् , लखनऊ-ब्रह्मोस्-एकांशः उत्तरप्रदेश-रक्षा-विनिर्माणस्य प्रथममौविध्यम् अस्ति यत्र प्रक्षेपास्त्र-प्रणाल्याः निर्माणात् आरभ्य अन्तिम परीक्षणपर्यन्तं सम्पूर्णप्रक्रिया स्वदेशे एव विधीयते ।
एतत् पूर्व , रक्षामन्त्री हिन्दुस्तान एरोनॉटिक्स लिमिटेड्-संस्थायाः नासिक-उत्पादनान्वितौ निर्मितस्य प्रथम-तेजस-एलसीए-एमके-वन-ए-युद्ध विमानस्य अनावरणं अकरोत् । अत्रावसरे, रक्षामन्त्रिणा एचटीटी-चत्त्वारिंशत् प्रशिक्षु विमान-निर्माणकर्तृ-समवायस्यापि शुभारम्भः कृतः। श्रीसिंहेन नासिक-विभागे निर्मितानां सुखोई-त्रिंशत्, एलसीए, एचटीटी-चत्वारिंशत् विमानानां प्रशंसा कृता सहैव प्रोक्तं यत् एतेषां विमानानाम् उड्डयनं रक्षा-क्षेत्रे आत्मनिर्भरतायाः उड्डयनम् अस्ति। रक्षामन्त्रिणा रक्षोत्पादने आत्मनिर्भरतायाः लक्ष्यप्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां पुनरुच्चारिता । तेनोक्तं यत् देशस्य सङ्कल्पः अस्ति यत् सर्वाणि रक्षोपकरणानि देशे एव निर्मितानि स्युः ।
एतत् तेजस-विमानस्य उन्नतं संस्करणम् अस्ति, यस्मिन् उत्कृष्ट-युद्ध-एवियोनिक्स तन्त्रम् तथैव आकाशे एव ईन्धन-पूरणस्य क्षमतां समेत्य नैके महत्त्वपूर्ण-परिष्काराः कृताः। एतत् विमानं तावत् बहुद्देश्यात्मकं युद्ध-विमानम् अस्ति यश्च वायु-रक्षायां भूम्याक्रमणे सामुद्रिक-आक्रमणे च सक्षमम् अस्ति ।











