केन्द्रीय-वित्त-मन्त्री निर्मला सीतारामनवर्या अवदत् यत्, जी. एस्. टी. इत्यस्य द्वितीय-संस्करणस्य परिष्कारेण देशस्य अर्थव्यवस्था महतीं वृद्धिम् अवाप्नोत्, येन उत्सवसमये इलेक्ट्रानिक्स, आटोमोबाइल्स, उपभोक्तृ-वस्तूनि चेत्यादिषु प्रमुख-क्षेत्रेषु सर्वोत्तम-विक्रयणं जातम् अस्ति । सा नवदिल्ल्यां सूचना-प्रसारण-मन्त्रिणा अश्विनी-वैष्णवेन, वाणिज्य-उद्योग-मन्त्रिणा पियूष गोयल् इत्यनेन च सह जी. एस. टी. बचत्-उत्सव इत्यस्मिन् विषये संयुक्त-वार्ताहर-सम्मेलनं सम्बोधयन्ती आसीत् । वित्तमन्त्रिणा प्रोक्तं यत्, जी. एस्. टी. इत्यस्य देयमितौ अपचितिलाभः सामान्यजनेभ्यः प्रदीयते इति। अस्मिन् अवसरे वार्तालापं कुर्वन्, सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः अवदत् यत्, अस्मिन् वर्षे नवरात्रि-उत्सवे सर्वोतम-विक्रयणं दृष्टम् अस्ति । सः अवदत् यत्, अस्मिन् वर्षे नवरात्र्युत्सवावधौ इलेक्ट्रानिक्स् इत्यस्य विक्रयणे पूर्वतनस्य नवरात्रि-उत्सवस्य विक्रयणेन तुल्यं पञ्चविंशति-प्रतिशन्मितस्य वृद्धिः अभवत् इति । सः अवदत् यत्, जी. एस्. टी. परिष्कारैः खाद्यपदार्थानां मूल्येषु अपि अपचितिः जाता। जी. एस्. टी. बचत्-उत्सव इत्यस्मिन् विषये वाणिज्य-उद्योग-मन्त्री पियूष गोयलः अवदत् यत्, नवरात्रि-समये वाहनानां विक्रयणं अभूतपूर्वरूपेण वर्धितम् अस्ति । सः अवदत् यत्, एतादृशस्य अस्थिर-वैश्विक परिदृश्यस्य समये देशस्य वृद्धि एतावता प्रबलगत्या प्रचलन्ती अस्ति येन अन्ताराष्ट्रिय मुद्रा कोषेन अपि देशस्य वृद्धः पूर्वानुमानं संशोध्य षड्-दशमलव षड्-प्रतिशन्मितं यावत् वर्धितम् अस्ति।











