वार्ताहर:-प्रवेशकुमारशुक्ल:, भोपालम्
आत्मीयता, आदरभावना च कार्यक्रमे सम्पूर्णतया प्रकटिता आसीत्
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे निदेशकस्य प्रो. रमाकान्तपाण्डेयस्य जयपुरपरिसरे निदेशकपदे नियुक्तेः उपलक्ष्ये सौप्रस्थानिकसमारोहः सुसम्पन्नः। एषः कार्यक्रमः स्नेह, सम्मान, च भावनाभावनया ओतप्रोतः आसीत्।
कार्यक्रमस्य प्रारम्भे सर्वे विभागाध्यक्षाः प्रो. पाण्डेयमहाभागं अङ्गवस्त्रेण, श्रीफलेन, कुसुममालया च आदरपूर्वकं अभिनन्द्य स्वागतवन्तः। अनन्तरं परिसरस्थाः प्राध्यापकाः कर्मचारिणः, छात्रछात्राश्च आत्मीयभावेन निदेशकस्य अभिनन्दनं कृतवन्तः।
अनुभवकथनशृंखलायां प्रथमं प्रो. सुबोधशर्मा, अध्यक्षः व्याकरणविभागस्य, उक्तवान् यत्— “प्रो. रमाकान्तपाण्डेयमहाभागेन त्रिवर्षचतुर्मासपर्यन्तं कालावधौ विश्वविद्यालयस्य प्रगतिः सुचारुरूपेण प्रवर्तिता, कठिनतमानि अपि प्रसङ्गानि सहजतया समाधानानि च प्राप्तानि।”
तत्पश्चात् प्रो. भारतभूषणमिश्रः, अध्यक्षः ज्योतिषविभागस्य, भाषमाणः अवदत्— “भवतः अध्ययन-अध्यापनयोः क्षेत्रे अग्रगण्यता सर्वविदिता अस्ति। प्रशासनिके शैक्षणिके च स्तरयोः भवतः योगदानं सर्वेभ्यः प्रेरणादायकम्।”
प्रो. सनन्दनकुमारत्रिपाठी महोदयः श्लोकानां माध्यमेन स्वानुभवान् व्यक्तवान्, प्रो. अर्चनादुबे अध्यक्षा आधुनिकविभागस्य कवितारूपेण स्वभावनाः उरःस्पर्शिण्या अभिव्यक्तवती।
ऑनलाइनमाध्यमेन प्रो. नीलाभतिवारी, निदेशकः नासिकपरिसरस्य, प्रो. पाण्डेयस्य प्रशासनिकदक्षतां विस्तरेण निरूपितवान्।
ततः प्रो. वेदनारायणचौधरी, पूर्वाध्यक्षः शिक्षाशास्त्रविभागस्य, उक्तवान्— “प्रो. पाण्डेयमहाभागस्य कार्यकाले भोपालपरिसरस्य चतुर्मुखविकासः सम्पन्नः, अहं तस्य प्रत्यक्षसाक्षी अस्मि।”
तस्मिन्नेव क्रमणि प्रो. योगेशकुमारजैन, विभागाध्यक्षः जैनदर्शनविभागस्य, अवदत्— “भवतः निर्देशनात् सर्वे विभागाः समविकासं प्राप्तवन्तः, नूतनपाठ्यक्रमाणां च सृजनं सम्पन्नम्।”
शिक्षाशास्त्रविद्याशाखाया: वरिष्ठाचार्या: प्रो. सोमनाथसाहु महोदयः श्लोकैः भावनाः प्रगटिता:, प्रो. कृपाशंकरशर्मा स्व-रचितया कवितया निदेशकं प्रति श्रद्धांजलिं समर्पितवान्। डॉ. पवनव्यासः, विभागाध्यक्षः दर्शनशास्त्रविभागस्य, प्रो. रमाकान्तपाण्डेयं प्रति आत्मीयकृतज्ञतां प्रकटितवान्।
अन्ते अन्येऽपि प्राध्यापकाः, कर्मचारीणः, छात्राश्च स्वस्वशब्दैः हार्दिकाः शुभकामना: व्यक्तवन्तः। सम्पूर्णकार्यक्रमः सौहार्दादरभावनया पूरितः आसीत्।
कार्यक्रमस्य सुन्दरं सञ्चालनं धन्यवादज्ञापनं च डॉ. राहुलशर्मेण कृतम्।











