बिहारविधानसभानिर्वाचनस्य प्रथमे चरणे अष्टादश जनपदेषु एकविंशत्यधिकैकशतासनेषु मातदानं सम्पन्नम्।
अस्य चरणे षड् षष्ठि दशमलवोत्तर चतुःषष्ठि प्रतिशतं यावत् मतदानम् अभिलिखितम्। पटना,वैशाली, नालन्दा, भोजपुर, मुङ्गेर, सारण, सिवान, बेगुसराय, लखीसराय, गोपालगञ्ज, मुज़फ़्फ़रपुर, दरभंगा, माधेपुरा, सहरसा इत्येतेषु जनपदेषु मतदानं सम्पन्नम्। अनेन निर्वाचनेन इ. वि. एम्. यन्त्रे आहत्य चतुर्दशोत्तर-त्रिशताधिकैक-सहस्रं यावत् प्रत्याशिनां भाग्यं पिहितम्। लघु घटनाः विहाय मतदानं प्रायः शान्ति पूर्णम् आसीत्।
बेगुसराय् जनपदे सर्वाधिकं नवपञ्चाशत दशमलव द्यशीतिः प्रतिशतं मतदानम् अभवत्। अस्मिन् चरणे ये प्रमुखाः नेतारः स्पर्धायां आसन् तेषु बिहारस्य मुख्यमन्त्री जे. डी. (यू) दलस्य अध्यक्षः नितीशकुमारः, नितीश कुमारस्य मन्त्रिमण्डलस्य षोडश मन्त्रिणः, आर्. जे. डी-नेता तथा महाघटबन्धनस्य मुख्यमन्त्रीपदस्य प्रत्याशि तेजस्वी प्रसाद यादवः, भाजपा-नेता तथा उपमुख्यमन्त्री सम्राट् चौधरी, भाजपा नेता तथा केन्द्रीय गृह राज्यमन्त्री नित्यानन्द-रायः, लोकजनशक्ति-दलस्य प्रमुखः चिराग पासवानः, वि.आई. पि- दलप्रमुखः तथा महाघटवन्धनस्य उप-मुख्यमन्त्रीपदस्य प्रत्याशि मुकेश साहनी च आसन्।
लखिसराय्-मण्डले, केचन उपद्रवीजनाः उपमुख्यमन्त्रिणः तथा भाजपेति दत्तस्य प्रत्याशिन विजयकुमारसिन्हायाः वाहनस्य उपरि मतदानकेन्द्रस्य समीपे आक्रमणं कृतवन्तः । निर्वाचन आयोगः घटनैषा गम्भीरतया स्वीकृत्य डी. जी. पी. विनयकुमारं सम्बद्धानां विरुद्धम् कठोराचरणाय निर्देशं दत्तवान्। निर्वाचन आयोगस्य अन्ताराष्ट्रिय निर्वाचन आगन्तुक-कार्यक्रमस्य अन्तर्गतं षट्-देशानाम् प्रतिनिधयः पटना, मुज़फ़्फ़रपुर, वैशाली, नालन्दा इत्येतेषु निर्वाचन क्षेत्रेषु भ्रमण कृतवन्तः। ते मतदानप्रक्रियायाः निरीक्षणं कृत्वा स्वतन्त्र, निष्पक्ष, पारदर्शकं च निर्वाचन सुनिश्चेतु निर्वाचन आयोगेन कृतानां उपक्रमाणां प्रशंसाम् कृतवन्तः। बिहार-राज्यस्य मुख्य-निर्वाचन-अधिकारिणा बिहार-विधानसभा निर्वाचनस्य प्रथम-चरणस्य समये कतिपयेषु मतदानकेन्द्रेषु आर्. जे. डि. इति राष्ट्रिय जनता-दलेन कृत स्वेच्छया विद्युत्-विच्छेदनस्य आरोपान् निराकृतम्। मुख्य-निर्वाचन-अधिकारिणा अरोपान् पूर्णतया निराधारम्, भ्रमात्मकं च उक्तम्।
एतदतिरिच्य, निर्वाचनस्य द्वितीयस्य चरणस्य प्रचारः गतिम् अवाप्रोत्। एन्. डी. ए. तथा महाघटवन्धन् इत्येतयोः नेतारः स्वियाभ्यर्थिनां समर्थने प्रचारे संलग्नाः सन्ति। बिहारस्य अरारियायां जनसभां सम्बोधयन् वरिष्ठः भाजपा नेता तथा प्रधानमन्त्री नरेन्द्रमोदी आर्. जे. डी. दलस्य कार्यकाले बिहारराज्ये अराजकता, विकासम्य अभावः च आसीत् इति आरोपितवान्। पश्चात् प्रधानमन्त्री भागलपुरनगरे एकाम् अन्यत् जनसभाम् अपि सम्बोधितवान्। केन्द्रीयमन्त्री अमितशाहः पश्चिमी चम्पारण, पूर्वी चम्पारण, मधुवनी इत्येतेषु मण्डलेषु प्रचाराभियाने भविष्यति, रक्षामन्त्रीः राजनाथसिंहः चापि पूर्वी चम्पारण, सीतामढी इत्येतयोः मण्डलयोः भविष्यति। महाघटवन्धन् इत्यस्य मुख्यमन्त्रीपदस्य प्रत्याशी तेजस्वी प्रसाद यादवः मध्वनी, मुपौल, किशनगञ्ज, कटिहार, पूर्णिया इत्येतेषु मण्डलेषु अष्टादश-निर्वाचनसमारोहेषु संबोधितवान ।











