भारतीय-क्रिकेट-क्रीडायाः ऐतिहासिक क्षणमेतत्, यद् भारतीय-महिला-क्रिकेट-दलेन मुम्बईनगरस्य डॉ. डी.वाई. पाटील क्रीडा अकादमी क्रीडांगणे, अन्तिमचक्रे, दक्षिणाफ्रिकादलं द्विपञ्चाशत् धावनांकैः विजित्य, प्र-प्रथमवारं अन्ताराष्ट्रिय-महिला-एकदिवसीय विश्व-चषकोपाधिः प्राप्तः ।पूर्व प्रथमं स्तोभकत्वं स्वीकृत्य नायिकायाः, हरमनप्रीतकौरस्य नेतृत्वे, भारतेन एकोनशतोत्तर-त्रिशतं धावनांकानां सुदृढं लक्ष्यं निर्धारितम् आसीत् । शेफाली वर्मा इत्यनया सप्ताशीतिः अथ दीप्तिशर्मा इत्यनया अष्टपञ्चाशत् धावनांकैः सम्मिलितेन योगदानेन सह भारतेन, पञ्चाशत् क्षेपचक्रेषु सप्त स्तोभकहानौ अष्टनवत्युत्तर-द्विशतं धावनांकैः स्वपर्यायः समाप्तः आसीत् । तस्य उत्तरे दक्षिण आफ्रिकादेशेन कठिन-प्रतिस्पर्धा प्रदर्शिता, परन्तु सार्ध-त्रिचत्वारिंशत् क्षेपचक्रेषु एव केवलं षट्-चत्वारिंशदुत्तर-द्विशतं धावनांकैः बहिर्गमनं जातम् । शेफाली वर्मा स्व-उत्कृष्टप्रदर्शनस्य कृते उत्तम-क्रीडक-उपाधिं प्राप्तवती । अनेन सह भारतीय-महिला-क्रिकेट-दलेन प्र-प्रथमवारं अन्ताराष्ट्रिय-महिला-एकदिवसीय-विश्व-चषकोपाधिः प्राप्तः । राष्ट्रपति द्रौपदी मुर्मू प्रधानमन्त्री नरेन्द्र मोदी अन्ये च नेतारः भारतीयदलस्य विश्वविजयस्य कृते अभिनन्दनं कृतवन्तः । विजेतृ-भारतीय-महिला-क्रिकेट्-दलस्य सदस्याः नवदिल्ल्याः राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदी-मुर्मु वर्यया सह मिलितवन्तः। राष्ट्रपतिः मुर्मुः विजेतृणाम् अभिनन्दितवती।
प्रधानमन्त्रिणा नरेन्द्रमोदिना लोक-कल्याण-मार्गे स्वीय निवासस्थाने महिला-विश्वचषक-विजेतृणाम् आतिथ्यं कृतम्। श्रीमोदी, महिला-क्रिकेट्-दलस्य विजयाय अभिनन्दनं कृत्वा, तिसृषु स्पर्धासु पराजयानन्तरं प्रतियोगितायां तासां उल्लेखनीयस्य पुनरागमनस्य प्रशंसाम् अकरोत्। प्रधानमन्त्री क्रीडकान् निवेदितवान् यत् ते मुख्यतया बालिकानां कृते, फिट् इण्डिया इत्यस्य सन्देशम् अग्रे नयन्तु इति। मेलने दलनायिका हरमन्त्रीत् कौर इत्येपा सप्तदशाधिक-द्विसहस्रतमवर्षे प्रधानमन्त्रिणा सह मेलनस्य स्मरणं कृतवती, यदा तौ चपकं विनैव मिलितवन्तौ। दीप्तिशर्मा इत्येपा सप्तदशाधिक द्विसहस्रतमवर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना मह मिलितवती तदा प्रधानमन्त्रिणा परिश्रमाय उक्तम् आसीत्।











