भारतनिर्वाचनायोगः नवद्वादशराज्येषु त्रिषु च केन्द्रशासितप्रदेशेषु मतदातृसूचीनां विशेषगहनपुनरीक्षणस्य द्वितीयचरणं प्रारब्धवान्।
भारत-निर्वाचनायोगेन विशेष-गहन-पुनरीक्षणाभियानस्य द्वितीयचरणस्य शुभारम्भः कृतः। एतत् अभियानं तावत नवराज्येषु त्रिषु केन्द्रशासित-प्रदेशेषु च प्रचाल्यते। एतेषु तावत् मतदातृसंख्या आहत्य एकपञ्चाशत क्लोटिमितं वर्तते । मतदातृ-सूचीनां व्यापक पुनरीक्षणम षड्विंशत्यधिक-द्विसहस्रतमस्य फरवरी-मासस्य सप्तमे दिनाङ्के अन्तिम मतदातृ-सूच्याः प्रकाशनेन सह समाप्तिमेष्यति। एसआईआर-अभियानस्य नूतने चरणे अण्डमान-निकोबार-द्वीपसमूहः, लक्षद्वीप-छत्तीसगढ़-गोवा-गुजरात-केरल मध्यप्रदेश-पुदुच्चेरी-राजस्थान-तमिळनाडु-उत्तरप्रदेश-पश्चिम बङ्गालश्चेत्यादीनि राज्यानि सम्मिलितानि भविष्यन्ति। एतेषु तमिळनाडु-पुदुच्चेरी-केरल-पश्चिम-बङ्गालेषु षड्विंशत्यधिक-दविसहस्रतमे वर्षे विधानसभा निर्वाचनं भविष्यति। गणना-चरणं तावत् सम्बर-मासस्य चतुर्थ-दिनाङ्कपर्यन्तं प्रचलिष्यति । प्रारूप मतदातृ-सूची दिसम्बर-मासस्य नवमे दिनाङ्के प्रकाशिष्यते। एतेषु द्वादशराज्येषु केन्द्रशासित-प्रदेशेषु च मतदातृ-सूच्यः पूर्वमेव स्थगिताः सन्ति। मतदान केन्द्रस्तरस्य अधिकारिणः वर्तमान-पञ्जीकृत-मतदातृभ्यः विशिष्टानि गणना-प्रपत्राणि वितरिष्यन्ति। एतेषु प्रपत्रेषु तेषां वर्तमान मतदातृ-विवरणानि समाविष्टानि सन्ति। यदि तेषां नाम त्र्यधिक-द्विसहस्रतमस्य मतदातृ-सूच्याम अपि प्रकशितम् तर्हि तेषां कृते अतिरिक्तस्य प्रलेख-प्रदानस्य आवश्यकता न भविष्यति। निर्वाचनायोगानुसारं एसआईआर-अभियानस्य उद्देश्यम् अस्ति यत् अपात्र-नामानि निरस्य कोऽपि योग्यः नागरिकः सूच्याः वञ्चितः न भवेदिति । अस्यां प्रक्रियायां मतदातृणां जन्मस्थानस्य सत्यपनम् समाविष्टं येन अवैध-नागरिकाणां विनिर्णये साहाय्यं लप्स्यते। बाङ्ग्लादेश-म्यानमार- देशाभ्याम् आगतानाम् अवैध-प्रवासिनामुपरि जातस्य कर्याचयणान्तर्गतम् अयं पदक्रमः विशिष्टतां भजते ।











