सञ्चार–साथी–तन्त्रांशस्य पूर्वस्थापनम् अनिवार्यम्—आर्थिक–सुरक्षायै नूतनः सरकारनिर्णयः

सञ्चार्-साथी- चलदूरभाषीय–तन्त्रान्शस्य वर्धमानस्य स्वीकार्यता दृष्ट्या, सर्वकारेण दूरवाण्याः निर्मातृभ्यः अस्य तन्त्रान्शस्य पूर्वस्थापनम् अनिवार्यं कर्तुं निर्णयः कृतः अस्ति। सर्वकारेण स्पष्टीकृतम् यत् नागरिकाः यदा इच्छन्ति तदा तन्त्रान्शं निष्कासयितुं शक्नुवन्ति तथा च तन्त्रान्शे उपयोक्तृणां रक्षणम् अतिरिच्य अन्यत् किमपि कार्यं नास्तीति। सञ्चारमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् अद्यावधि चत्वारि दशमलवोत्तर एक कोटिजनाः उपयोक्तारः सञ्चार–साथी–तन्त्रान्शं स्थापितवन्तः।केन्द्रीय–सञ्चार मन्त्री ज्योतिरादित्य–सिन्धिया विपक्षस्य गूढचर्यायाः आरोपान् निराकृतवान्। सः अवदत् यत् सञ्चार्–साथी–ऐपद्वारा गूढचर्या न सम्भवः, न भविष्यति। लोकसभायाम् एकस्य प्रश्नस्य प्रत्युत्तरे श्री–सिन्धिया–वर्यः स्पष्टं कृतवान् यत् उपयोक्तारः स्वसौख्येन पञ्जीकरणं कृत्वा अस्य लाभान् प्राप्तुं ऐपम् सक्रियं कर्तुं शक्नुवन्ति तथा च ते कदापि स्वस्य उपकरणात् तत् निष्क्रियं निष्कासयितुं वा शक्नुवन्ति।
अतिरिक्ततया मन्तव्यम् यत् एषः तन्त्रांशः उपयोक्तारं साहाय्यं करोति यत् तस्य दूरवाणी यथार्थं निर्मितमेव वा, उत कश्चन कपट–उपकरणं इति परीक्षयितुं शक्यते। उपयोक्तारः यदा इच्छन्ति तदा स्वचौर्यीकृतं दूरवाणिं तेन एव अवरुध्य वा अवरोधक–सूचनां प्रेषयितुं शक्नुवन्ति, येन वित्त–सुरक्षायाः दृष्ट्या महदुपकारकं भवति। यदि कश्चित् उपयोक्तृ–दूरभाष्यसंख्या दुरुपयुज्यते इति संशयः भवति तर्हि तदपि तन्त्रांशे रिपोर्ट्–करोति, येन वित्त–कपट–जालानां नियंत्रणम् अधिकं दृढम् भवति। सः अवदत् यत् नरेन्द्र–मोदिनः प्रशासनेन नागरिकान् कपट–क्रियाकलापात् तथा दूरवाणी–दुरुपयोगात् रक्षितुं एषा सुविधा प्रदत्तास्ति।