सुखदेव- सेवा-संस्थानस्य महत्सहयोगेन, जी. डी. मोदी कालेज ऑफ आर्ट्स इत्यस्य महाविद्यालयस्य संस्कृताध्ययनकेन्द्रस्य शिक्षकेण च संस्कृतसम्भाषणशिबिरं सञ्चालितमस्ति । अद्य संस्कृतभाषणशिबिरस्य समापनसमारोहः कार्यक्रमः सुसम्पन्नः अभवत् । एतत् सम्भाषणशिबिरं 3 दिसम्बरतः 15 दिसम्बर पर्यन्तम् आसीत्। संस्कृतभारती गुजरातम् , केन्द्रीयसंस्कृतविश्वविद्यालस्य संस्कृताध्ययनकेन्द्रं , सुखदेव-सेवा-संस्थानं पालनपुरं च एतासां संस्थानां सहयोगः आसीत् । संस्कृतसम्भाषणशिबिरस्य आयोजनम् पालमपुरनगरस्य उपासनाविद्यालये जातम् आसीत् । कार्यक्रमस्य सञ्चालनं अञ्जलिः पार्थवी च अकुर्वताम् । कार्यक्रमस्य आदौ मंगलाचरणं प्रियलः काजलः च भगिन्यौ कृतवत्यौ । एतस्य अनन्तरं ध्येयमन्त्रं श्रेया दिव्या च कृतवत्यौ तथा च स्वागतगीतम् अभूत् । स्वागतगीतम् अनन्तरं मञ्चे विद्यमानानां सर्वेषाम् अतिथीनां परिचयं प्रास्ताविकभाषणञ्च हरिश्चन्द्रमहोदयः अकरोत् । कार्यक्रमस्य अध्यक्षरूपेण उपासनाविद्यालयस्य प्रधानाचार्यः सिद्धार्थब्रह्मभट्टमहोदयः आसीत् । महोदयेन उक्तं यत् संस्कृतभाषा सरला मधुरा भाषा वर्तते , छात्राः संस्कारान् संस्कृतं पठित्वा एव ज्ञास्यन्ति, भारतीयसंस्कृतिः विशिष्टा संस्कृतिः अस्ति । अस्माभिः सर्वैः विशेषतः ध्यानं दात्तव्यम् । अद्य कार्यक्रमस्य मुख्यातिथिरूपेण सुखदेव-सेवा-संस्थानस्य कार्यकर्ता पिंकेशसोनावर्यः आसीत् । महोदयेन उक्तं यत् सुखदेव-सेवा-संस्थानस्य बहवः कार्यक्रमाः प्रचलन्ति यथा श्रीमद्भगवत-ज्ञान-गीता, संस्कृतस्य प्रचारः, गौसेवा , श्रीमदभागवतकथा च इत्यादयः प्रचलन्ति । महोदयेन संस्कृतभावत्याः परिचयं कारयित्वा संस्कृतभाषायाः महत्त्वं संस्कृतसम्भाषणस्य वैशिष्ट्यञ्च साररूपेण उक्तम् । एषा भाषा व्यवहारिकी भाषा भूयात् एवञ्च संस्कृतभाषा नैतिकजीवने बहु-महत्त्वपूर्णा भाषा वर्तते । अस्मिन् कार्यक्रमे बहवः छात्राः भागं ग्रहीतवन्तः । कार्यक्रमे संस्कृतगीतं, स्वागतगीतं, अनुभवकथनं, अभिनयगीतं गीताश्लाकान् च एताः प्रस्तुतीः छात्राः अकुर्वन् । श्रिया, तनिषा, जैनी, वेदिका ,वन्दना, रिषिका, श्रेया, प्रिया ,श्रिया, तन्वी, जान्वी, आस्था , ज्योतिः, समर्थः, तीर्थः, निशितः ,प्रियलः च एतषां द्वारा प्रस्तुतयः जाताः । जी. डी. मोदी कालेज ऑफ आर्ट्स इत्यस्य महाविद्यालयस्य संस्कृताध्ययनकेन्द्रस्य प्रशिक्षकः हरिश्चन्द्रः सर्वेषाम् अतिथीनां छात्राणाञ्च आभारं ज्ञापितवान् । कार्यक्रमस्य समायोनं संस्कृतशिक्षिका रिंकूमहोदया कृतवती । कार्यक्रमे प्रधानाचार्यः सिद्धार्थब्रह्मभट्टमहोदयः , निकितामहोदया , रूपलभगिनी, अपर्णाभगिनी , हरिश्चन्द्रः, विद्यालयस्य शिक्षकाः शिक्षिकाः इत्यादः उपस्थिताः आसीन् । कार्यक्रमे 200 छात्राः उपस्थिताः आसन् । कार्यक्रमस्य शान्तिमन्त्रेण समापनं जातम् ।











