स्वामी-विवेकानन्द-कनिष्ठमहाविद्यालयस्य “युवास्पन्दनम्–२०२५” स्नेहसंमेलनस्य उल्लासपूर्णः समारोपः

वार्ताप्रेषकः- अर्जुन शास्त्री

जळगावः, दि. १९ —के.सी.ई. संस्थया सञ्चालिते मू.जे.महाविद्यालयान्तर्गतं स्थिते स्वामी-विवेकानन्द-कनिष्ठमहाविद्यालये द्विदिवसीयं स्नेहसंमेलनं “युवास्पन्दनम्–२०२५” महानुत्साहेन हर्षोल्लासेन च सम्पन्नम्।
युवास्पन्दनस्य द्वितीयदिवसे विविधा मनोरञ्जनप्रधानाः सांस्कृतिकाः क्रीडात्मकाश्च स्पर्धाः आयोजिताः। कार्यक्रमस्य शुभारम्भः रंगमञ्च-पूजनेन अभवत्। अस्मिन् अवसरॆ प्रा. डॉ. केतन नारखेडे, उपप्राचार्यः आर. बी. ठाकरे, पर्यवेक्षिका प्रा. स्वाती बऱ्हाटे, समन्वयकः प्रा. उमेश पाटील, स्नेहसंमेलनप्रमुखा प्रा. वर्षा पाटील, उपप्रमुखः प्रा. संदीप वानखेडे च उपस्थिताः आसन्।
आदौ भारतीय-प्रादेशिक-पारम्परिक-वेशभूषा-प्रतियोगिता आयोजिताभवत्। अस्यां प्रतियोगितायां विद्यार्थिभिः भारतस्य विभिन्नराज्यानां प्रदेशानां च लोकपरम्पराः सुन्दरैः वेशैः प्रदर्शिताः। गुजरात्, आन्ध्रप्रदेशः, तमिळनाडुः, उत्तराखण्डः, पश्चिमबङ्गालः, महाराष्ट्रः, पञ्जाबः, गोवा, कर्नाटकं, ओडिशा इत्यादिराज्यानां लोकवेशभूषणानि परिधाय प्रतिभागिनः सम्मानिताः। अस्याः प्रतियोगितायाः परीक्षकौ तन्वी वडोदकरः तथा डॉ. पूजा पाण्डेय च आस्ताम्।
गीतगायनकार्यक्रमे द्वात्रिंशत् विद्यार्थिनः सहभागं कृतवन्तः। गुंजन सोनवणे इत्यस्याः “ऐका दाजीबा” तथा रितेश सोनवणे इत्यस्य “शांताबाई” इति गीतयोः प्रस्तुत्या सर्वे श्रोतारः उत्साहेन तल्लीनाः अभवन्। केशव सोनी इत्यस्य “केसरिया” इति गीतं श्रोतृहृदयानि स्पृष्टवान्। वादन-प्रतियोगितायां स्वरूप शिन्दे इत्यस्य गिटारवादनं, ईशान्त साळी इत्यस्य बांसुरीवादनं च प्रेक्षकान् मंत्रमुग्धान् अकरोत्। मंगेश वाघः अभय गजभिये च अस्याः प्रतियोगितायाः परीक्षकौ आसताम्।
नृत्यप्रतियोगितायां एकल-, युगल-समूह-नृत्यरूपेण पञ्चत्रिंशत् प्रतियोगिनः सहभागं कृतवन्तः। अक्षरा महाजन इत्यस्याः “घर मोरे परदेसीया” इति गीतनृत्येन सर्वेषां मनांसि जितानि। साक्षी मोरे इत्यस्याः “काली बिंदी” नृत्यं चित्ताकर्षकम् अभवत्। “पावरा” समूह-नृत्येन प्रेक्षकाः तालधारणं कृतवन्तः। नेहा अम्बेरे इत्यस्याः “लल्लाटी भंडार” नृत्यं विशेषप्रशंसितम्। राकेश कोळी, अनुष्का परिहार च परीक्षकौ आस्ताम्।
अस्मिन् शैक्षणिकवर्षे “श्रेष्ठविद्यार्थिनी” इति सन्मानः एकादश-विज्ञानशाखायाः साक्षी दिगम्बर ढाके इत्यस्यै प्रदत्तः।
“प्राचार्यस्य गौरवपट्टिका” (Principal Roll of Honour) विज्ञानशाखायां रोहित ब्राह्मणकरः, वाणिज्यशाखायां देवश्री परदेशी, कलाशाखायां वैष्णवी चौधरी, न्यूनकौशल्यविभागे राणी जाधव इत्येतेभ्यः प्रदत्ता।
काव्यवाचन-प्रतियोगितायां प्रथमः क्रमाङ्कः ईशान्त साळी, द्वितीयः स्वरूप शिन्दे, तृतीयः झीनत शेख पिंजारी इत्येतेभ्यः प्राप्तः। उत्स्फूर्त-भाषण-प्रतियोगितायां इशिका रायसिंघानी प्रथमं, प्रणाली नारखेडे द्वितीयं, ईशान्त साळी तृतीयं स्थानं प्राप्तवन्तः।
विविध-कला-छन्द-प्रतियोगितासु रङ्गोली, चित्रांकन, रेखाचित्र, हस्तकला, मेहन्दी, टॅटू इत्यादिषु विद्यार्थिनः उत्कृष्टं प्रदर्शनं कृतवन्तः।
क्रीडास्पर्धासु क्रिकेटे छात्राणां “रॉयल चॅलेंजर्स”, छात्रिकाणां “गेम चेंजर्स” दलं विजयी अभवत्। बैडमिन्टने, बुद्धिचाले (चेस्) च छात्रछात्रिकाः विजेतारः घोषिताः।
कार्यक्रमस्य समारोपः वार्षिक-पारितोषिक-वितरण-समारोहेन अभवत्। अस्य समारोहार्थं प्रमुखातिथिरूपेण के.सी.ई. संस्थायाः सहसचिवः ॲड. प्रविणचन्द्र जंगले उपस्थितः आसीत्। अध्यक्षस्थानं शैक्षणिक-सांस्कृतिक-समन्वयकः शशिकान्त वडोदकरः अलङ्कृतवान्।
उपप्राचार्यः आर. बी. ठाकरे इत्यनेन शैक्षणिकवर्षस्य विवरणं प्रस्तुतम्। स्नेहसंमेलनप्रमुखा वर्षा पाटील इत्यया स्नेहसंमेलनस्य समग्रावलोकनं कृतम्। अस्मिन् अवसरॆ महाविद्यालयस्य शैक्षणिकं मासिकं “युवास्पन्दनम्” मान्यवरैः अनावृतम्।
“स्नेहसंमेलनं विद्यार्थिनां सुप्तप्रतिभानां प्रकटीकरणाय उत्तमं व्यासपीठम्” इति ॲड. प्रविणचन्द्र जंगले इत्यनेन प्रतिपादितम्। “सृजनात्मक-अभिव्यक्त्या एव शैक्षणिकजीवनस्य सम्यक् घडणं भवति” इति अध्यक्षीयभाषणे शशिकान्त वडोदकरः अवदत्।
पारितोषिक-वितरण-कार्यक्रमस्य सूत्रसञ्चालनं कृतज्ञता-प्रदर्शनं च प्रा. दीपक चौधरी इत्यनेन कृतम्। समारोपकाले द्वादशवर्गस्य विद्यार्थिनी समीक्षा माकोडे इत्यया “वन्दे मातरम्” राष्ट्रगीतं सुमधुरं गायितम्।
स्नेहसंमेलनस्य सफलतायै महाविद्यालयस्य सर्वाः समितयः तथा प्राध्यापकवृन्दः विशेषपरिश्रमं कृतवन्तः।