वार्ताहरः – आचार्यः विशालप्रसादभट्टः,बाली इण्डोनेशिया
इण्डोनेशिया- दिनाङ्कः – 18 दिसम्बर 2025 तमे, गुरुवासरे, केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली, भारतम् अपि च द्वीपान्तरसंस्कृतप्रतिष्ठानम्, बाली इण्डोनेशिया इत्यनयोः संयुक्ततत्त्वावधानेन समारब्धस्य संस्कृताध्ययनकार्यक्रमस्याङ्गतया संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमस्य श्रीमार्कण्डेयगुरुकुले शुभारम्भोSभवत्।
तत्रावसरेSस्मिन् सर्वादौ निवायन् वायुनी विद्यास्तुतिः इत्यनया गुरुकुलछात्रया कार्यक्रमस्य निर्विघ्नतापूर्वकपरिसमाप्तये यशस्वितायै च वैदिकमङ्गलाचरणपुरस्सरं भगवतः श्रीगणपतेः वाचिकं समाराधनं विहितम्।
तदनन्तरं द्वीपानन्तरसंस्कृतप्रतिष्ठानस्य न्याससंरक्षकेण श्रीमता सुमेशसोमन् – वर्येण प्रास्ताविकभाषणं कुर्वन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य संस्कृतशिक्षकस्य आचार्यविशालप्रसादभट्टस्य परिचयपुरस्सरं वाचिकं स्वागतं व्याहृतम्। तदनु तेनोक्तं यत् केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्विनां माननीयकुलपतिवर्याणां आचार्यश्रीनिवासवरखेडिमहोदयानां कुशलनेतृत्वे मुक्तस्वाध्यायपीठस्य च समादरणीयनिदेशकमहोदयानाम् आचार्यरत्नमोहनझामहोदयानां सफलमार्गदर्शनेन द्वीपानन्तरसंस्कृतप्रतिष्ठानस्य न्याससंरक्षकस्य श्रीसोमेशसोमन्वर्यस्य प्रयासेन च उभयोः संस्थयोर्मध्ये ऐदम्प्राथम्येन अन्ताराष्ट्रियस्तरेSपि संस्कृताध्ययनकार्यक्रमस्य सञ्चालनाय परस्परं सहमतिपत्रं (MOU) हस्ताक्षरितं वर्तते। वयं आशास्महे यदयं शुभारम्भः इण्डोनेशियादेशस्य बालीद्वीपस्य संस्कृत्याः संरक्षणसंवर्धनाय बालीद्वीपस्थसंस्कृतप्रेमिणां हृदयेषु संस्कृतभाषायाः पुनरुज्जीवनाय संस्कृतस्य प्रचारप्रसाराय च महतीं भूमिकां निर्वक्ष्यति।
तदनु कार्यक्रमस्यास्य संयोजिका नि पुतु इन्द्रियाणीमहोदया कार्यक्रमस्य प्रशंसां कृत्वा छात्रान् संस्कृताध्ययनाय सम्प्रेरयत्।
तदनन्तरं संस्कृतशिक्षकेण आचार्यविशालप्रसादभट्टेन संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमस्य परिचयपुरस्सरं प्रथमदीक्षापुस्तकानि च प्रदर्श्य संस्कृताध्ययनस्य च वैशिष्ट्यं प्रतिपाद्य प्रत्यक्षविधिना रोचकपद्धत्या च संस्कृतभाषाशिक्षणं कृतम्। छात्राः सश्रद्धं सोत्साहं च कक्षायां भागं गृहीतवन्तः।
अनन्तरं शान्तिमन्त्रेण कक्षायाः सम्पूर्तिः अभवत्।
अवसरेSस्मिन् गुरुकुलशिक्षिका श्रीः, कार्यालयस्य कार्यकर्त्री सुधर्मिणीमहोदया इत्यादयः उपस्थिताः आसन्।











