वार्ताप्रेषकः- कुलदीपमैन्दोला
जलगाव(महाराष्ट्र-राज्यम्) : के.सी.ई. संस्थया सञ्चालिते स्वामीविवेकानन्दकनिष्ठमहाविद्यालये, जलगावनगरे, शिक्षक–अधिकारीणां कृते आयोजितासु विभागस्तरीयासु सांस्कृतिकस्पर्धासु महाविद्यालयस्य प्राध्यापकैः उल्लेखनीयं गौरवपूर्णं च यशः सम्पादितम्।
अस्यां स्पर्धायां महाविद्यालयस्य त्रयः प्राध्यापकाः स्वस्वकलाविधासु उत्कृष्टं सादरीकरणं कृत्वा राज्यस्तरीयस्पर्धायै प्रत्यक्षरूपेण पात्रतां प्राप्तवन्तः। अनेन महाविद्यालयस्य कीर्तिः अधिकं संवर्धिता जाता।
मूकाभिनय-विधायां डॉ. श्रद्धा पाटील महोदया संवादवर्जितेन केवलं भावाभिव्यक्त्या देहभाषया च अभिनयकौशलेन सामाजिकविषयाधारितां प्रभावी प्रस्तुतीं अकरोत्। तस्याः सादरीकरणे सहजता, सुस्पष्टा मांडणी तथा भावप्रवणता परीक्षकैः दर्शकैः च विशेषतया प्रशंसिता।
कथाकथन-विधायां प्रा. संध्या महाजन महोदयाया प्रस्तुतं कथाकथनं आशयसमृद्धं, रसपूर्णं विचारप्रवर्तकं च आसीत्। स्वरारोहावरोहः, भावनात्मकप्रवाहः, भाषाप्रावीण्यं तथा प्रभावी प्रस्तुतीशैली इत्यादिगुणैः तस्याः कथाकथनं परीक्षकैः उच्चाङ्कैः सम्मानितम्।
तथा च डॉक्युमेंटरी-विधायां डॉ. जयन्त इंगळे महोदयेन सामाजिकं, शैक्षणिकं सांस्कृतिकं च यथार्थं अधोरेखयन्ती संशोधनाधिष्ठिता, तन्त्रदृष्ट्या समर्था च डॉक्युमेंटरी प्रस्तुतिता। विषयमांडणी, दृश्यसंयोजनं, आशयसुसूत्रता तथा अनुसंधानात्मकदृष्टिः इत्यादिभिः गुणैः तस्य सादरीकरणं विशेषप्रशंसां प्राप्तम्।
अस्य उल्लेखनीयस्य यशसः प्रसङ्गे के.सी.ई. संस्थायाः अध्यक्षः प्राज्ञवन्तः नन्दकुमार बेंडाळे महोदयः त्रयाणां प्राध्यापकाणां हार्दिकं अभिनन्दनं कृत्वा एतद् यशः संस्थायाः कलात्मक-सांस्कृतिकदृष्ट्या प्रेरणादायकं भवतीति अवदत्।
महाविद्यालयस्य प्राचार्यः डॉ. सं. ना. भारंबे महोदयः एतत् यशः प्राध्यापकाणां कलागुणानां बहुआयामित्वस्य च मान्यतारूपम् इति निरूप्य राज्यस्तरीयस्पर्धायै शुभाशयाः प्रकटितवान्।
अवसरेऽस्मिन् उपप्राचार्यः श्री. आर. बी. ठाकरे महोदयः, पर्यवेक्षिका सौ. स्वाती बऱ्हाटे महोदया, समन्वयकः प्रा. उमेश पाटील महोदयः च अभिनन्दनं कृत्वा महाविद्यालये शैक्षणिकगुणवत्तासह सांस्कृतिक-सर्जनशीलकार्यक्रमाणां निरन्तरं प्रोत्साहनं दीयते इति अवदन्।
अनेन यशसा स्वामीविवेकानन्दकनिष्ठमहाविद्यालयस्य, जलगावस्य शैक्षणिक-सांस्कृतिकपरम्परा अधिकं सुदृढा जाता। आगामिन्यां राज्यस्तरीयस्पर्धायामपि महाविद्यालयस्य कीर्तिः वर्धिष्यते इति दृढः विश्वासः व्यक्तीकृतः।
महाविद्यालयस्य प्राध्यापकवर्गः, शिक्षकेतरकर्मचारिणः तथा छात्रवृन्दश्च त्रयाणां मान्यवराणां हृदयपूर्वकं अभिनन्दनं कृतवन्तः।











