प्रसिद्धयोगशिक्षकेन राकेशकण्डवालेन प्रदर्शितं योगशक्तिं
वार्ताप्रेषकः- कुलदीपमैन्दोला
पौड़ीगढवालजनपदे चढ़ीग्रामस्थिते DIET संस्थाने आयोजितायां योगप्रशिक्षणकार्यशालायां योगस्य महत्त्वं स्पष्टतया अनुभूतम्। प्रशिक्षणकार्यशालायां जीवनयापनस्य कलारूपेण योग: आच्छादितोभवत् । प्रसिद्धयोगशिक्षकेन राकेशकण्डवालेन प्रदर्शितं योगशक्तिं। अस्यां कार्यशालायां प्रतिपादितं यत् योगः केवलं शारीरिकव्यायामरूपेण न भवति, अपि तु सः जीवनयापनस्य कलारूपः अस्ति।
नियमितयोगाभ्यासेन मानवस्य शरीरं निरामयं भवति, मनः शान्तिं प्राप्नोति, विचाराश्च सकारात्मकतां यान्ति। योगासनानां, प्राणायामस्य, ध्यानस्य तथा षट्कर्मणां अभ्यासेन शरीरस्य आन्तरिकशुद्धिः जायते, रोगप्रतिरोधकशक्तिः वर्धते, मानसिकैकाग्रता च विकसित भवति।
कार्यशालायां प्रशिक्षकैर्योगस्य वैज्ञानिकः, व्यावहारिकः तथा संस्कारात्मकः पक्षः विस्तरेण विवृण्वानः प्रदर्शितः। विशेषतः शिक्षकेभ्यः प्रशिक्षणार्थिभ्यश्च एतत् बोध्यं कृतं यत् योगशिक्षणेन बालकानां शारीरिकं, मानसिकं, बौद्धिकं तथा नैतिकं च सर्वाङ्गीणविकासः सम्भवः भवति।
अस्याः योगप्रशिक्षणकार्यशालायाः मुख्योद्देश्यः आसीत्—शिक्षकान् प्रशिक्षणार्थिनश्च योगेन सह सम्बद्धीकर्तुं, येन ते विद्यालयेषु बालकेषु योगाभ्यासं प्रभावीरीत्या समावेशयितुं शक्नुयुः।
कार्यक्रमे वक्तारः अवदन् यत् योगः न केवलं व्यक्तिगतस्वास्थ्याय, अपि तु समाजस्य कल्याणाय अपि अत्यावश्यकः अस्ति। योगाभ्यासेन अनुशासितजीवनशैलीः, नैतिकमूल्यानि तथा संस्काराश्च विद्यार्थिषु विकसित भवन्ति।
अन्ते सर्वैः सहभागीभिः योगस्य प्रचारप्रसारस्य संकल्पः कृतः। सर्वेषां मतमासीत् यत्—
“योगं स्वीकुर्मः, स्वस्थाः भवामः, संस्कारवन्तश्च जीवामः।
योगेनैव स्वस्थसमाजस्य निर्माणं सम्भवम्।”











