ऐदम्प्राथम्येन द्वीपान्तरसंस्कृतप्रतिष्ठाने इन्दोनेशियाराष्ट्रस्य बलीप्रान्ते बाली- भारतीयप्रधानवाणिज्यदूतावासस्य, CGI *(Consulate General of India, Bali) महावाणिज्यदूतः CG (Consul General) , डॉ. शशाङ्कविक्रममहाभागः मुख्यातिथित्वेन एवञ्च विशिष्टातिथित्वेन भारतीयसांस्कृतिकसम्बन्धपरिषदः (Indian Council for Cultural Relations) बालीस्थ-स्वामिविवेकानन्दकेन्द्रनिदेशकः( SVCC ,BALI) श्रीनवीनमेघवालमहोदयश्च केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकार्यक्रमाङ्गतया ऐषमः संस्कृताध्ययनकेन्द्रं समुद्घाटयत्।।

वार्ताहरः – आचार्यः विशालप्रसादभट्टः,बाली इण्डोनेशिया

05.01.2026 तमे दिनाङ्के, सोमवासरे,भारतस्य नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठेन इन्दोनेशियाराष्ट्रस्य बलीप्रान्तस्य द्वीपान्तरसंस्कृतप्रतिष्ठानस्य मार्कण्डेयगुरुकुले संस्कृताध्ययनकार्यक्रमाङ्गतया संस्कृताध्ययनकेन्द्रं समुद्घाटितम्। गुरुकुलच्छात्रैः वैदिकमन्त्रोच्चारणपुरस्सरं सरस्वतीवन्दनया ध्येयमन्त्रेण च कार्यक्रमस्यास्य शुभारम्भो विहितः। तदनु बाली, लोम्बोक्, जावा, इत्यादीनां द्वीपानां संयोजकः श्रीसुयशमहोदयः समागतातिथीनां परिचयपुरस्सरं संस्कृतपुस्तकसमर्पणेन स्मृतिचिह्नप्रदानेन स्वागतं व्याहरत् । प्रास्ताविकोद्बोधने तेनोक्तं यत् गतनवेम्बरमासे संस्कृतभारत्याः अखिलभारतीयाधिवेशनावसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्विनां मान्यमान्यानां कुलपतिवर्याणाम् आचार्यश्रीनिवासवरखेडिमहाभागानां कुशलमार्गदर्शने मुक्तस्वाध्यायपीठस्य मान्यानां निदेशकवर्याणाम् आचार्यरत्नमोहनझामहोदयानां एवञ्च द्वीपान्तरसंस्कृतप्रतिष्ठानस्य न्यासिनां श्रीसुमेशसोमवर्याणाम् अध्यक्षाणाम् इ मदे धनञ्जयवर्याणां सन्निधौ उभयोर्सस्थयोः परस्परं सहमतिपत्रं (MOU) हस्ताक्षरितमभूत्। एतत्संस्कृताध्ययनकेन्द्रस्य समुद्घाटनेन इन्दोनेशिया-भारतदेशयोर्मध्ये पूर्ववत् संस्कृतसंस्कृत्योः दृढसम्बन्धः पुनर्स्थापितो भवेदिति आशास्महे। कार्यक्रमस्यास्य समुद्घाटकः मुख्यातिथिः बाली-भारतीयप्रधानवाणिज्यदूतावासस्य CGI (Consulate General of India, Bali) महावाणिज्यदूतः CG (Consul General) माननीयः डॉ. शशाङ्कविक्रममहाभागः कम्पुल् इति विशेषवाद्यं त्रिवारं नादयित्वा कार्यक्रमं समुद्घाट्य प्राभाषत यत् इन्दोनेशियाभारत-देशयोर्मध्ये सहस्रवर्षेभ्यः संस्कृतसंस्कृतिसम्बन्धः वर्तते, एवञ्च उभयोर्राष्ट्रयोर्मध्ये बहुकालात् परस्परं ज्ञानस्य आदनप्रदानमासीत्।
तेनोक्तं यत् भवन्तः संस्कृताध्ययनकेन्द्रमाध्यमेन संस्कृतभाषाध्ययनं विधाय अग्रे योगायुर्वेदभगवद्गीतारामायणमहाभारतादीनां संस्कृतग्रन्थानां च गभीराध्ययनं कर्तुं समर्थाः भविष्यन्ति। तदनन्तरं कार्यक्रमस्य विशिष्टातिथिः भारतीयसांस्कृतिक-सम्बन्धपरिषदः Indian Council for Cultural Relations) बालीस्थ-स्वामिविवेकानन्द-केन्द्रनिदेशकः ( SVCC BALI) श्रीनवीनमेघवालमहोदयः आशंसाभाषणे प्रोक्तवान् यत् न केवलं मानवजीवनस्य सर्वाङ्गीण-विकासाय अपितु निखिलस्यापि प्रपञ्चस्य मानवानां सर्वाभ्युदयाय च संस्कृताध्ययनं परमावश्यकम्। संस्कृताध्ययनेन मानवेषु दुष्टप्रकृतेः निवारणं भवति सद्प्रवृत्तीनाञ्च सम्वर्धनं जायते। अतः सम्प्रति ये जनाः संस्कृतेन सम्भाषणं कुर्वन्ति संस्कृतं च पठन्ति तेषां वस्तुतः महद्भागधेयं वर्तते।
तदनन्तरं वर्गसंयोजकः श्रीमान् माणिक आस्तवमहोदयः उत्तराखण्डतः समुपागतस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकेन्द्रशिक्षकस्य आचार्यविशालप्रसादभट्टमहोदस्य परिचयं कारयित्वा अन्ते सामाजिकजनानां कृते 06.01.2025 दिनाङ्कतः आयोजयिष्यमाणस्य द्वादशदिनात्मकस्य संस्कृतसम्भाषणशिबिरस्य सूचनाः दत्तवान्।
कार्यक्रमस्य सञ्चालनं गुरुकुलछात्रौ संस्कृतांङ्लभाषया पुतु धिता दिव् नातालिच् , इ गेदे फाजर कृष्णा पुत्रः च अकुरुताम्।
अवसरेSस्मिन् संस्कृतभारत्याः कार्यकर्ता डॉ. एच् एस् सुदर्शनमहोदयः, श्रीसुधीसुब्रह्मण्यमहोदयश्च द्वीपान्तरसंस्कृतप्रतिष्ठानस्य कार्यकर्तारः, गुरुकुलच्छात्राः, बालीद्वीपस्थाश्च अनेके सामाजिकजनाः समुपस्थिताः अभवन्।