सोमनाथमन्दिरस्य शताधिकवर्षाणाम्

सोमनाथमन्दिरस्य गतशताधिकवर्षाणाम् अस्तित्वं देशस्य सुदृद्धसंस्कृतेः भावं प्रतिविम्बयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। सः अवदत् यत्, पुनः पुनः आक्रमणेषु, विपत्सु च अपि सोमनाथमन्दिरं निरन्तरं उन्नतं वर्तते। पड्विंशत्यधिकैकशततमे वर्षे जाते सोमनाथ-देवालयस्य उपरि प्रथम-आक्रमणस्य सहस्रवर्षाणां ऐतिहासिक अवसरे ओपी-एह इत्यस्मिन् निदर्शनं कुर्वन् प्रधानमन्त्री उक्तवान्, सोमनाथ शब्दं धुत्वा जनानां हृदयेषु मनःसु च अभिमानस्य अनुभूतिः भवति। सः अवदत् यत्, एतत् देशस्य आत्मनः नित्यघोषः अस्ति तथा च एतत् भव्यं मन्दिरं देशस्य पश्चिमतटे गुजरातराज्ये स्थितः अस्ति। सोमनाथ मन्दिरस्य जीर्णोद्धारार्थ योगदानकर्तृणां प्रयवानां प्रशंसां कुर्वन् प्रधानमन्त्री अवदत् यत्, पुनः प्रतिष्ठापितं मन्दिरं भक्तानां कृते उद्घाटनानन्तरं पविंशत्यधिक-द्विसहस्रतमे वर्षे पञ्चसप्तति वर्षाणि पूरयित्वा अन्यं महत्त्वपूर्ण लक्ष्यं प्राप्स्यति। प्रधानमन्त्री मोदी अवदत् यत् पड्विंशत्यधिकैकसहस्रतमे तमे वर्षे जनवरीमासे महमूदः गज़नी-इत्येषः अस्य मन्दिरस्य उपरि आक्रमणं कृतवान्, हिंसात्मकेन आक्रमणेन आस्थायाः सभ्यतायाः च महान् प्रतीकं नाशयितुं I प्रयतितवान्। श्रीमोदिना दृश्य-धव्य-माध्यमेन उक्तं यत्, महस्रवर्षाणाम् अनन्तरं अपि, सोमनाथस्य वैभवं पुनः स्थापयितुं असंख्य-प्रयवैः इदं मन्दिरं अद्यापि तथैव-वैभवयुतं वर्तते। अत्रान्तरे, प्रधानमन्त्री नरेन्द्रमोदी विवासरे गुजरात-स्थितस्य सोमनाथमन्दिरस्य भ्रमणं अकरोत । एकः अधिकारी अवदत् यत् सोमनाथस्य स्वाभिमान-पर्वं स्मरणाय सोमनाथे वर्षपर्यन्तम् कार्यक्रमाणाम् आयोजनस्य योजना निर्मिता अस्ति। पविंशत्यधिक द्विसहस्रतमे वर्षे मोमनाथस्य उपरि प्रथमस्य आक्रमणम्य एकसहस्रवर्षाणि जातानि । सोमनाये जनवरीमासस्य अष्टम दिना‌ङ्कादारभ्य एकादश दिनाङ्कपर्यन्तं नैके आध्यात्मिक-सामाजिक-कार्यक्रमाः आयोजिताः भविष्यन्ति। भाजपेति दलेन उक्तं यत् ऐतिहासिकस्य सोमनाथस्य मन्दिरस्य प्राणप्रतिष्ठा-समये प्रथमराष्ट्रपतेः डा. राजेन्द्रप्रसादस्य परिकल्पना अधुना प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे परिपूर्णा भविष्यति। नवदिल्ल्याः दलस्य-मुख्यालये वार्ताहर-सम्मेलनं सम्बोधयन् दलस्य प्रवक्ता डा. सुधांशु त्रिवेदी अवदत् यत्, भारतं समृद्धिं प्रति गच्छन् अस्ति, अधुना देशः विश्वस्य चतस्रः बृहत्तमार्थव्यवस्था अभवत् इति।