(वार्ताहर-प्रवेशकुमारशुक्ल: , भोपालम् )
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे राज्यस्तरीयशास्त्रप्रतियोगितानामायोजनमभवत् कार्यक्रमस्य आरम्भः सरस्वतीवन्दनाद्वारा कृतः। ततः दीपप्रज्वलनं, वैदिकमङ्गलाचरणं, तथा कुलगीतं क्रमशः सम्पन्नानि।
कार्यक्रमस्य प्रारम्भिकचरणे अतिथीनामौपचारिकस्वागतसम्मानञ्च कृतम्। आयोजनस्य संयोजकः प्रो० प्रदीपकुमारपाण्डेयः कार्यक्रमस्य प्रस्तावनां प्रदर्शयन् उक्तवान् यत् एतेषु प्रतियोगितासु छात्रेषु संस्कृतभाषायाः प्रति रुचि जाग्रतिः स्यात्, तेषां प्रतिभा सशक्तमञ्चे प्रदत्तास्ति, आत्मविश्वासश्च भाषादक्षता च विकासं प्राप्नुवन्ति। सः अपि उक्तवान् यत् संस्कृतभाषा राष्ट्रचेतनायाः सुदृढीकरणे महती भूमिका वहति।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरः संस्कृति-उत्थानस्य मार्गे सततं प्रशंसनीयां भूमिकां वहति। एषः परिसरः संस्कृतभाषायाः, भारतीयज्ञानपरंपरायाः तथा सांस्कृतिकमूल्यानां संरक्षणे-संवर्धने च सशक्तकेंद्ररूपेण उदितः। शैक्षिकगतिविधयः, प्रतियोगिताः, संगोष्ठयः, अकादमिकाः आयोजने च छात्रेषु सांस्कृतिकचेतना, नैतिकमूल्यानि तथा राष्ट्रीयभावनां सुदृढं कुर्वन्ति। भोपालपरिसरे क्रियमानाः प्रयासाः न केवलं संस्कृतशिक्षां सशक्तवन्ति, अपितु भारतीयसंस्कृतेः व्यापकप्रचारप्रसारे अपि महत्वपूर्णं योगदानं ददाति।
प्रतियोगितासत्रे छात्राः विविधेषु संस्कृतविधासु उत्साहपूर्णं सहभागं कृतवन्तः। अस्मिन अवसरि डॉ० महेशदासः स्वविचाराणि व्यक्तयन् उक्तवान् यत् संस्कृतभाषा भारतीयजीवनमूल्यानां, अनुशासनस्य तथा तार्किकचिन्तनस्य च आधारशिला अस्ति तथा राष्ट्रोत्थाने च अस्य योगदानं अत्यन्तं महत्वपूर्णम्।
अग्निसत्रे प्रो० ब्रजभूषणओझा, वाराणसी विषयगतं व्याख्यानं प्रस्तुतवान्। सः उक्तवान् यत् संस्कृताधारिताः प्रतियोगिताः छात्रान् स्वस्य सांस्कृतिकमूलभूतेभ्यः जडाभ्यः सम्बद्धयन्ति तथा राष्ट्रनिर्माणे चेतनां सुदृढयन्ति।
संपूर्णानंदसंस्कृतविश्वविद्यालयात् आगतः प्रो० अमितकुमारशुक्लः उक्तवान् यत् श्लोकपाठः, भाषणं, लेखनं, प्रश्नोत्तरीश्च प्रतियोगितासु छात्रेषु अभिव्यक्तिकौशलस्य, बौद्धिकविकासस्य तथा भाषानुशासनस्य समुचितविकासं कुर्वन्ति।
मुख्यअतिथित्वेन महर्षिपाणिनिसंस्कृत एवं वैदिक विश्वविद्यालयस्य प्रो० शिवशंकरमिश्रः, कुलपति: स्वसंबोधनं कृत्वा उक्तवान् यत् संस्कृतभाषा भारतीयज्ञानपरंपरायाः मूलाधारम् अस्ति। सः अपि उक्तवान् यत् संस्कृतस्य संरक्षणं, संवर्धनं च राष्ट्रीयोत्थानस्य, सांस्कृतिकपुनर्जागरणस्य तथा चरित्रनिर्माणस्य दिशायाम् सशक्ताधारं प्रददाति।
भोपालपरिसरे निदेशकः प्रो० सुबोधशर्मण: अध्यक्षीयोद्बोधनं कृत्वा उक्तवान् यत् एतेषु शैक्षिकप्रतियोगितात्मकआयोजनानि छात्रेषु अनुशासनं, नेतृत्वकौशलं तथा राष्ट्रप्रेमभावनां विकसयन्ति।
कार्यक्रमस्य समापनसत्रे रागिनीशर्मा कृतज्ञताज्ञापनं प्रस्तुतवती।
कार्यक्रमे उपस्थिताः आचार्याः प्रो० गोविंदकुमारपाण्डेयः, प्रो० अशोककुमारकक्षवाहः, प्रो० सोमनाथसाहुः, प्रो० नितिनकुमारजैनः आसीताम्, येषां गरिमामयी उपस्थिति कार्यक्रमस्य शैक्षिकमहत्तां च वर्धयत।











