यः कोऽपि संस्कृतानुरागिजनः संस्कृतसम्भाषणशिबिरं प्रविश्य केवलं दशदिवसेषु प्रतिदिनं घण्टाद्वये आहत्य विंशतिघण्टासु सरलसंस्कृतेन सम्भाषणं कर्तुं समर्थः भवति। अतः एतत्प्रयोगेण सिद्धयति यत् सरलसंस्कृतेन सम्भाषणं शक्यम् । संस्कृतं सरलं सरसं बोधगम्यं सम्भाषणयोग्यं च वर्तते। संस्कृतं सर्वेषाम्। संस्कृतं सर्वत्र। विश्वस्य हितं संस्कृते सन्निहितम् – आचार्यः विशालप्रसादभट्टः
श्रीमार्कण्डेयगुरुकुलम् ,बाली,इण्डोनेशिया इत्यत्र केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकार्यक्रमाङ्गतया जनवरीमासस्य षड्दिनाङ्कादारभ्य षोडशदिनाङ्कं यावत् ऐषमः द्वादशदिनात्मकं संस्कृतसम्भाषणशिबिरं सुसम्पन्नम्। शिबिरेSस्मिन् बालीस्थाः शिक्षकाः, उद्योगिनः, पुरोहिताः,अर्चकाः,गृहिण्यः इत्यादयः आहत्य उपविंशतिसङ्ख्याकाः संस्कृतजिज्ञासवः जनाः सोत्साहं सश्रद्धञ्च भागं गृहीतवन्तः। शिबिरशिक्षकत्वेनात्र आचार्यः विशालप्रसादभट्टः द्वादशदिनानि यावत् प्रतिदिनं सायंकाले घण्टाद्वयं रोचकतया सरलविधिना प्रत्यक्षरूपेण च समुपस्थितान् संस्कृतानुरागिजनान् संस्कृतसम्भाषणं शिक्षितवान्। शिबिरेSस्मिन् सर्वेSपि शिबिरार्थिनः साभिनयं संस्कृतगीत-कथा-क्रीडा-वस्तुप्रदर्शन-स्फोरकपत्र-प्रक्षेपकयन्त्रप्रयोगादिभिः विविधमाध्यमैः रुचिपूर्वकं च संस्कृतसम्भाषणस्य प्रशिक्षणं प्राप्तवन्तः। जयतु संस्कृतं विश्वपोषकम्।











