गणतन्त्रदिवसमुपलक्ष्य CGI (Consulate General of India), CG (Consul General) भारतीयमहावाणिज्यदूतेन डॉ. शशाङ्कविक्रममहोदयेन ( Indian Council for Cultural Relations) SVCC,BALI भारतीयसांस्कृतिकसम्बन्धपरिषदः,बालीस्थ-स्वामिविवेकानन्दकेन्द्रनिदेशकेन श्रीनवीनमेघवालमहोदयेन च केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकेन्द्रस्य संस्कृतभाषाशिक्षकः आचार्यः विशालप्रसादभट्टः सम्मानितः
बाली, इण्डोनेशिया जनवरीमासस्य षड्विंशतितमे दिनाङ्के इण्डोनेशियाराष्ट्रस्य बालीस्थे भारतीयप्रधानवाणिज्यदूतावासे भारतीयजनैः ऐषमः सप्तसप्ततितमः गणतन्त्रदिवसः सश्रद्धं समाचरितः।
तत्रादौ महावाणिज्यदूतः डॉ. शशाङ्कविक्रमः ध्वजारोहणं कृतवान्। तदनु सर्वैः भारतीयैः सम्भूय राष्ट्रगानं विहितम्। अनन्तरं गणतन्त्रदिवसकार्यक्रमस्य मुख्यातिथिः भारतीयमहावाणिज्यदूतः डॉ. शशाङ्कविक्रमः सर्वेभ्यः गणतन्त्रदिवसस्य शुभकामनाः प्रयच्छन् स्वीयोद्बोधने भारतसर्वकारस्य विविधराष्ट्रकल्याणकारियोजनानां विषये भारत-इण्डोनेशियादेशयोः परस्परं सांस्कृतिकसम्बन्धविषये च सविस्तरं प्रोक्तवान्। तदनु भारतीयसांस्कृतिकसम्बन्धपरिषदः स्वामिविवेकानन्दकेन्द्रनिदेशकः श्रीनवीनमेघवालः स्वीयभाषणे भारतस्य स्वतन्त्रतासेनानिनां त्यागशौर्यवीर्यपराक्रमं संस्मारयन् तान् प्रति श्रद्धाञ्जलिं समर्पितवान्। तदनु श्रीनवीनमेघवालमहोदयः सारस्वतातिथिरूपेण समागतस्य नवदेहलीस्थ-केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य संस्कृताध्ययनकेन्द्रस्य संस्कृतभाषाशिक्षकस्य आचार्यविशालप्रसादभट्टवर्यस्य स्वागतपरिचयं विधाय भारतीयसंस्कृतेः संस्कृतशिक्षणस्य च महत्ताविषये उद्बोधनाय सम्प्रार्थयत् । तदनन्तरं स्वीये सारस्वतभाषणे आचार्यविशाल-प्रसादभट्टेन सविस्तरं भारतीयसंस्कृतेः संस्कृतभाषायाश्च महत्त्वं प्रतिपाद्य केन्द्रीयसंस्कृत-विश्वविद्यालयस्य बालीस्थ-द्वीपान्तरसंस्कृतप्रतिष्ठाने सञ्चालितस्य संस्कृताध्ययन-कार्यक्रमस्य परिचयं विधाय सर्वेपि समुपस्थिताः जनाः संस्कृताध्ययनाय सम्प्रेरिताः। तदनु तेन सर्वेभ्यः समागतभारतीयेभ्यः गणतन्त्रदिवसस्य शुभकामनाः समर्पिताः। कार्यक्रमे विद्यालयीयच्छात्रैः विविधाः देशभक्तियुताः सांस्कृतिकप्रस्तुतयः प्रस्तुतीकृताः। तदनु भारतीयमहावाणिज्यदूतः CG. डॉ. शशाङ्कविक्रममहोदयः, SVCC-निदेशकः श्रीनवीनमेघवालमहोदयश्च संस्कृतसेवाव्रतिने आचार्यविशाल-प्रसादभट्टस्य मङ्गलवस्त्रप्रदानेन पद्मश्रीत्रिवेणीकविमिश्रोSभिराजराजेन्द्रसङ्कलितसम्पादित- कल्पवल्ली, समकालिकसंस्कृतकाव्यसङ्कल्पना इत्याख्येन पुस्तकसमर्पणेन च सम्माननम् अकुरुताम्।











