सत्यधर्मस्य प्रभावः (बाल कथा )

पुरा भारतदेशे धर्मपुरम् इति नाम्ना एकं रमणीयं ग्रामं आसीत्। सः ग्रामः हरितैः क्षेत्रैः, निर्मलैः सरोवरैः, तथा परिश्रमीभिः ग्रामवासिभिः प्रसिद्धः आसीत्। ग्रामे जनाः परस्परं प्रेम्णा सह वसन्ति स्म। तथापि कदाचित् लोभः जनानां मनसि प्रविष्टः।
धर्मपुरस्य समीपे एकः वृद्धः साधुः निवसति स्म। सः सत्यदत्तः इति नाम्ना प्रसिद्धः आसीत्। सः साधुः सदा सत्यं वदति स्म, धर्ममार्गेण जीवनं यापयति स्म, तथा ग्रामवासिभ्यः उत्तमान् उपदेशान् ददाति स्म। बालाः अपि तं साधुं दृष्ट्वा प्रसन्नाः भवन्ति स्म।
एकदा ग्रामे राजा आगन्तुं निश्चितवान्। राजा धर्मप्रियः आसीत्, सः ग्रामस्य स्थितिं ज्ञातुम् इच्छति स्म। ग्रामवासिनः अतीव हृष्टाः अभवन्। ते ग्रामं शोभयितुं आरब्धवन्तः। किन्तु तस्मिन् ग्रामे एकः ग्रामप्रमुखः आसीत्, यस्य नाम विक्रमः इति। सः लोभी आसीत्। सः चिन्तयामास “यदि राजा मम ग्रामस्य प्रशंसा करिष्यति, तर्हि अहं महत् पुरस्कारं प्राप्स्यामि।”
तस्मात् सः ग्रामस्य दोषान् गोपयितुं आरब्धवान्। जर्जरितं विद्यालयं रात्रौ आवृतवान्, दरिद्रान् जनान् ग्रामात् बहिः प्रेषितवान्, तथा जलसमस्या अस्ति इति सत्यं अपि न उक्तवान्।
राजा ग्रामं प्राप्तवान्। सर्वं बाह्यतः सुन्दरं दृष्ट्वा राजा सन्तुष्टः अभवत्। विक्रमः आत्मनः विजयम् इव मन्यमानः आसीत्। तदा वृद्धः साधुः सत्यदत्तः राजानं दृष्ट्वा समीपं गत्वा नमस्कृतवान्।
राजा तं साधुं पृष्टवान् – “भगवन्, किं एषः ग्रामः सर्वथा सुखी अस्ति?”
साधुः क्षणं मौनं स्थित्वा अवदत् “महाराज, बाह्यतः शोभा अस्ति, किन्तु अन्तः दुःखम् अपि अस्ति। सत्यं विना शोभा दीर्घकालं न तिष्ठति।”
राजा विस्मितः अभवत्। सः सत्यदत्तेन सह ग्रामं भ्रमितवान्। तदा सः विद्यालयस्य जर्जरावस्थां, जलाभावं, दरिद्राणां स्थितिं च दृष्टवान्। राजा क्रुद्धः अभवत्।
राजा विक्रमं आहूय अवदत् – “त्वं ग्रामप्रमुखः सन् अपि सत्यं न अवदः। लोभः तव बुद्धिं नाशितवान्।” ततः राजा विक्रमं पदात् अपसारितवान्।
राजा ग्रामवासिभ्यः साहाय्यं दत्तवान्। विद्यालयं नवनिर्मितम्, सरोवरं उत्खातम्, तथा दरिद्राणां सहायता कृता। ग्रामः पुनः सुखी अभवत्।
ग्रामवासिनः सत्यदत्तं साधुं धन्यवादं दत्तवन्तः। बालाः अपि तस्य उपदेशान् स्मरन्ति स्म।
नीतिः (Moral):
सत्यं सदा जयति। लोभः विनाशाय भवति, धर्मः च सुखस्य मार्गं दर्शयति।