भारत-यूरोप-मुक्तव्यापार-सन्धिना यूरोपीयसङ्घ प्रति भारतस्य निर्यातः पञ्चवर्षेषु द्विगुणितं भवितुं शक्नोति इति विदेशमन्त्रीपीयूषगोयलः प्रोक्तवान् । श्री गोयल्- वर्यः व्यापारिणः, एम्. एस्. एम्. ई.-संस्थाः, स्टार्ट-अप्-संस्थाः, उद्यमिनः च अन्ताराष्ट्रिय-स्तरे गन्तुं ध्यानं दातुम् च प्रार्थितवान् । सामाजिक-सञ्जाल-माध्यमेन-लिखितानां लेखानां श्रृङ्खलायां प्रमुख राष्ट्रिय दैनिकपत्रिकाभिः सह स्वस्य साक्षात्कारं व्यञ्जयन् मन्त्रिवर्यः एतत् उक्तवान्। श्रीगोयलः इत्यपि अकथयत् यत् कथं व्यापार-व्यवहारः देशाय विभिन्नरूपेण लाभप्रदः भविष्यति । सः अवदत् यत् भारत-यूरोपीयसङ्घ-सन्धिः एका प्रबला एफ्. टि. ए. इति अस्ति या देशस्य संवेदनशील-क्षेत्राणां रक्षणं कुर्वती भारतस्य कृते प्रमुखान् अवसरान् उद्घाटयिष्यति।
संयुक्त-राष्ट्र-संघस्य प्रमुखः भारत-यूरोपीय संघयोः प्रस्तावित-मुक्त-व्यापारसाहमत्यस्य प्रशंसां कृतवान्। सः अवदत् यत् एतत् साहमत्यम् वैश्विक-आर्थिक सहयोगवर्धनाय महत्त्वपूर्णः पदक्षेपः अस्ति। संयुक्त राष्ट्र-प्रमुखः अपि उक्तवान् यत् स्थिरां शान्तिपूर्णां समतुल्यां च विश्व-व्यवस्थां प्रवर्तयितुं बहुध्रुवीयतायाः समर्थनम् अत्यावश्यकम् अस्ति। सः अन्ताराष्ट्रिय समुदायं सहकार्यार्थ, संवादार्थ परस्परं सहयोगार्थ च वलं दातुं समाकारितवान्।











