भारते निर्मितेषु उत्पादेषु शुल्कम् अष्टादश प्रतिशतमितात् न्यूनं भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् एतत् ऐतिहासिक-व्यापार-सन्धिः निरन्तर-सहनशीलतायाः परिणामः अस्तीति, व्यापार-व्यवहारेण आर्थिकं वातावरणम् निर्मितम् अस्ति, तथा च वैश्विक व्यापार-वार्तालापविषये सर्वकारस्य स्थिरं परिमाणीयं च दृष्टिकोणम् प्रतिबिम्बयति। सः अवदत् यत् विपक्षिणः शुल्कस्य निन्दाम् अकुर्वन्, परन्तु सर्वकारः सहनशीलः आसीत्, परिणामानि अधुना दृश्यमानानि सन्ति। विश्वव्यवस्था परिवर्तमाना अस्ति, तस्य मार्गश्व भारतं प्रति अधिकतया प्रवणः अस्ति। यदा अर्थव्यवस्थाद्वयं विश्वस्य बृहत्तमं लोकतन्त्रं च मिलित्वा कार्यं कुर्वन्ति, तदा अनेन जनेभ्यः लाभः भवति अथ पारस्परिकरूपेण लाभप्रद-सहयोगाय अवसराः उद्घाटिताः भविष्यन्ति। असौ अस्यै घोषणायै भारतस्य चतुर् दशांशोत्तर एकार्बुदमिताना जनानां पक्षतः राष्ट्रपतये ट्रम्प् वर्याय कृतज्ञतां प्रकटितवान्। असौ कथितवान् यत् भारतं शान्त्यै तस्य प्रयत्नान् पूर्णतया समर्थयति । केन्द्रीय-वाणिज्य-उद्योग-मन्त्री पियूष गोयलः अवदत् यत् ऐतिहासिकः भारत-अमेरिका-व्यापार-सन्धिः द्वयोः देशयोः मध्ये सम्बन्धान् सुदृढं कर्तुं, सप्तचत्वारिंशदधिक द्विसहस्रतम वर्षपर्यन्तं राष्ट्र विकसितभारतं कर्तुं भारतस्य यात्रां अग्रे नेतुं च महत्त्वपूर्णः पदाक्षेपो वर्त्तते। लोकसभायां ह्यः प्रवदन् श्री गोयलः अवदत् यत्, अस्मिन् व्यापारसमन्वये, भारतं संवेदनशीलक्षेत्रेषु विशेषतः कृषि-दुग्ध-क्षेत्रयोः च स्वहितानां रक्षणे सफलतया समर्थः अभवत्। व्यापार-व्यवहारस्य लाभविषये श्रीगोयलः अवदत् यत्, संधिना लघु-मध्यम-उद्यमानां, एम. एस. एम. ई. इत्येतेषां, कुशल-कर्मचारिणां, उद्योगानां च कृते नूतनाः अवसराः उद्घाटिताः भविष्यन्ति। रक्षामन्त्री राजनाथसिंहः अवदत् यत् भारत-अमेरिका-व्यापार-समयः उभयदेशानाम् आर्थिकसम्बन्धानां कृते निर्णायकः घट्टः अस्ति।











