ऐषमः षड्विंशत्यधिक द्विसहस्रतम वर्षस्य इण्डिया- ए. आई. इंपैक्ट-शिखरसम्मेलनेन ए. आई. प्रभाव-विषये नवदेहली-घोषणाम् अङ्गीकृतम्, यत् आर्टिफिसियल्-इन्टेलिजेन्स् इति वैश्विकसहयोगस्य महत्त्वपूर्ण सोपानम् अस्ति। आर्थिकवृद्धेः सामाजिक-कल्याणस्य च कृते ए. आई. इत्यस्य उपयोगस्य विषये विस्तृत-आधारित वैश्विक सर्वसम्मतिं प्रतिविम्बयन्, आहत्य अष्टाशीति देशैः अन्ताराष्ट्रिय-सङ्घटनैः च एषा घोषणा अनुमोदिता अस्ति। अस्य मासस्य १६ फेब्रुवरीतः २० फेब्रुवरीपर्यन्तं नवदिल्लीनगरे राष्ट्रिय-राजधान्यां भारतमण्डपमित्यत्र समायोजितस्य एआई-इम्पैक्ट समिट् २०२६ इति सम्मेलनस्य समापनम् भारतस्य रेस्पोन्सिबल्-एआई-विजन इत्यस्य प्रबलेन वैश्विक समर्थनेन सह अभवत्।
शिखरसम्मेलने सम्पूर्णस्य जगतः व्यापकरूपेण सहभागिता दृष्टा। ‘सर्वजनहिताय, सर्वजनमुखाय’ इत्यनेन सिद्धान्तेन ए. आई. इत्यस्य लाभाः मानवेषु समानरूपेण वितरणीयम्। समापन-पत्रकारसम्मेलनं सम्बोधयन् इलेक्ट्रानिक्स् अथ सूचनाप्रसारण-मन्त्री अश्विनी वैष्णवः अवदत् यत् सप्ततितः अधिकाः देशाः पूर्वमेव घोषणापत्रे हस्ताक्षराणि कृतवन्तः, एषा सङ्ख्या अशीति पारं गमिष्यतीति अपेक्ष्यते।
पूर्वे , सम्मेलनस्य चतुर्थे दिवसे प्रधानमन्त्री नरेन्द्रमोदी उद्योग-प्रौद्योगिकीय-जगतां प्रमुख नेतृभिः सह समनुष्ठितम् एकं महत्त्वपूर्ण-गोलमञ्च-मन्त्रणोपवेशनं अध्यक्षितवान्। अस्याः मन्त्रणायाः मुख्यलक्ष्यं कृत्रिमबुद्धिमत्तायाः भविष्य-दिशा, तस्याः वैश्विक उत्तरदायित्वं तथा भारतस्य डिजिटल-नेतृत्वस्य अवसराणां विषये व्यापकसंवादस्य स्थापना आसीत्। प्रधानमन्त्री उक्तवान् यत् कृत्रिमबुद्धिमत्ता अद्य विश्व ऐतिहासिक-परिवर्तनस्य प्रमुख-शक्तिरेव दृश्यते, अतः अस्याः प्रौद्योगिक्याः विकासः सतत-मानव-कल्याणस्य दिशि एव नियोजनीयः। अमुना सबलं प्रतिपादितं यत् प्रौद्योगिक्याः परम लक्ष्यं केवलं आर्थिक विकासः न भवेत्, अपि तु सर्वेषां समावेशनम्, सर्वेभ्यः समान अवसर प्रदानं च स्यात्। अस्यां मन्त्राणायां विश्वस्य प्रमुख-प्रौद्योगिकीय-क्षेत्राणां मुख्यकार्यकारि-अधिकारिणः, नवाचार-संस्थाः, उद्योग जगतः विशिष्ट प्रतिनिधयश्च सहभागिनः अभवन्। तैः सह एआई-प्रणालीनां नैतिकता, सुरक्षा, पारदर्शिता, उत्तरदायित्वं चेति विषयेषु गम्भीर-विमर्शोऽजायत। एतस्मात् पूर्वं प्रधानमन्त्रिणा सम्मेलनस्य औपचारिक उद्घाटनम् अपि कृतम्, यस्मिन् बहवो राष्ट्र-नेतारः, प्रौद्योगिकी-विशेषज्ञाश्च सहभागिनः अभवन्। अस्मिन् वर्षे “ए.आई. फ़ार् ह्युमन वेलफ़ेअर” इति भावनया सह “मानव विजन” इति मानव-केन्द्रित संकल्पना विशेषरूपेण प्रस्तुताभवत्, या नैतिक-प्रौद्योगिकीय-विकासं, पारदर्शितां च प्रोत्साहयति। भारतस्य प्रयासाः एआई-प्रौद्योगिकीं सरलां, समावेशिनीं च कृत्वा वैश्विक संसाधनरूपेण कृत्रिमबुद्धिमत्तायाः विकसानं लक्षयन्ति, येन नूतन-जीविका-सृजनम्, शिक्षा-विस्तारणम्, नवाचार-वर्धनं च सशक्ततया साध्येत। कृत्रिमबुद्धिमत्तायाः विकासः केवलं प्राविधिकोपलब्धिः न, अपि तु मानव-केन्द्रित प्रगतिशील-चिन्तनस्य प्रतीकभूतं तत्वम् अस्ति।
सम्मेलनावसरे केन्द्रीयमन्त्री अश्विनीवैष्णवः गूगल-अल्फाबेट-संस्थयोः मुख्यकार्यकारी अधिकारिणा सुन्दरपिचाई महोदयेन सह मिलितवान्। अत्रावसरे उभावपि जनौ भारतस्य कृत्रिमबुद्धिमत्ता विकासं, प्रतिभा-संवर्धनं, वैश्विक सहकार्य-विस्तारं च प्रोत्साहितुं संकल्पितवन्तौ।
सम्मेलनस्य अवसरे ‘पैक्स सिलिका’ इति साहमत्यपत्रके हस्ताक्षरानन्तरं केन्द्रीयमन्त्री अश्विनी वैष्णवः अवदत् यत् कृत्रिमबुद्धिमत्ता-क्षेत्रे भारतं न केवलं प्राविधिकीं क्षमतां संवर्धयति, अपितु उत्तरदायित्वपूर्ण मानवकेन्द्रितं च विकासमार्ग अनुसरति। ‘पैक्स सिलिका’ इति साहमत्यं भारतस्य नवोन्मेषशक्तेः, वैश्विकसहकार्यस्य, सुदृढनीतिप्रणाल्याः च प्रमाणम् अस्ति। सः विश्वासं व्यक्तवान् यत् एतादृशाः पदाक्षेपाः भारतं कृत्रिम बुद्धिमत्तायां उदयोन्मुख प्रौद्योगिकीय-क्षेत्रेषु च अग्रणीभूमिकायाः निर्वहणे अधिकं सशक्तं करिष्यन्ति।











