पाणिनीय-भाषाविज्ञानपरम्परा एवं आधुनिकभाषा’ विषयकैकदिवसीया कार्यशाला केंद्रीयसंस्कृतविश्वविद्यालय-भोपाल-परिसरे सम्पन्ना

संवादक: प्रवेशकुमारशुक्ल:, भोपालम्

केंद्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे आन्तरिकगुणवत्ताश्वासन-प्रकोष्ठेन (IQAC) ‘पाणिनीयभाषाविज्ञानपरम्परा एवं आधुनिकभाषा’ इति विषयक एकदिवसीया कार्यशाला समायोजिता। अस्याः कार्यशालायाः प्रमुखोद्देश्यं पाणिनीय-परम्परायाः वैज्ञानिकतां आधुनिकभाषावैज्ञानिकदृष्ट्या सह संयोजयितुमासीत्।
कार्यक्रमस्याध्यक्षतां परिसरनिदेशकः प्रो. हंसधर झामहोदया: अकुर्वन् । विश्वविद्यालयस्य सहनिदेशकः प्रो. गोविंदपाण्डेय: विशेषतया उपस्थितः आसीत्। विषय-विशेषज्ञरूपेण भारतीयप्रौद्योगिकीसंस्थान मुंबईत: समागताः प्रो. मल्हारकुलकर्णीमहोदया: सारगर्भितं व्याख्यानं दत्तवन्तः। तैः पाणिनीयव्याकरणस्य संरचनात्मकवैज्ञानिकता, भाषाशिक्षणे तस्य उपादेयता, आधुनिकभाषाविज्ञानेन सह तस्य सम्बन्धाश्च स्पष्टतया प्रतिपादिताः। छात्राणां प्रति तार्किकचिन्तनस्य, विश्लेषणात्मकदृष्टेः, अनुसन्धानप्रवृत्तेः च विकासाय प्रेरणा प्रदत्ता।
मुख्यवक्ता प्रो. मल्हारकुलकर्णीमहोदयेन भाषाविज्ञानस्य महत्त्वं प्रतिपादयन् उक्तम्—
“भाषाविज्ञानं केवलं शब्दानामध्ययनं न, अपितु मानवचिन्तनप्रक्रियायाः वैज्ञानिकपरिशीलनमस्ति। भाषा समाजस्य मूलं संप्रेषणसाधनम् तस्याः यथार्थावबोधाय भाषाविज्ञानमत्यावश्यकम्। अस्य साहाय्येन ध्वनितत्त्वं, रूपरचना, वाक्यरचना, अर्थव्यवस्था च सम्यक् अवगन्तुं शक्यते। अद्यतनसङ्गणकयुगे कृत्रिमबुद्धिमत्ता, अनुवादप्रणाली, सङ्गणकीयभाषाप्रक्रिया च भाषाविज्ञानाधारिताः सन्ति। अतः विद्यार्थिभिः परम्पराधुनिकतयोः समन्वयेन भाषाविज्ञानस्य गम्भीरमध्ययनं करणीयम्।”
मञ्चे व्याकरणविभागाध्यक्षः प्रो. सुबोधशर्मण:, साहित्यविभागाध्यक्षः प्रो. संदनत्रिपाठिमहोदयः च विराजमानौ आस्ताम्। कार्यक्रमस्य संयोजनं डॉ. कृष्णानन्दधन्नानामहोदयेन सम्यक् कृतम्। अस्मिन् अवसरे प्रो. सोमनाथसाहू, डॉ. कृष्णकान्ततिवारी, डॉ. राकेशवर्मा एवञ्च विद्याशाखाविभागस्य छात्र-छात्राः उपस्थिताः आसन्।
अध्यक्षीय-उद्बोधने प्रो. हंसधरझामहोदयेन प्रतिपादितं यत् पाणिनीयव्याकरणं विश्वस्यातीव वैज्ञानिकं सुव्यवस्थितं च भाषातन्त्रं वर्तते। व्याकरणं भाषायाः आधारः अस्ति, तेन विना न शुद्धाभिव्यक्तिः, न च प्रभावी संप्रेषणं सम्भवति। पाणिनीयसूत्रेषु लाघवं, तार्किकता, प्रणालीबद्धता च अद्वितीयतया दृश्यते। भारतीयज्ञानपरम्परायाः वैश्विकप्रतिष्ठायां पाणिनीयव्याकरणस्य महत्त्वपूर्णा भूमिका वर्तते।
अन्ते प्रश्नोत्तरसत्रं सम्पन्नम्, यत्र छात्रैः सक्रियतया सहभागिता प्रदर्शिता। धन्यवाद-ज्ञापनेन सह कार्यशालायाः समापनं कृतम्।