छात्राणां वर्धिता संख्या च संस्कृतं प्रति रुचिः, प्रदत्तं प्रोत्साहनं , डा.बलदेवप्रसादचमोलीवर्या: संस्कृतोन्नायका: ।
कुलदीपमैन्दोला। संस्कृतसेवायै सततसंलग्न: डा. बलदेवप्रसादचमोलीवर्य: उत्तराखण्डप्रदेशस्य प्रतिष्ठितः संस्कृतविद्वान्, शिक्षाविद् तथा प्राचार्यः इति रूपेण सुप्रसिद्धः अस्ति। सः अधुना ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये प्राचार्यपदं वहन् संस्कृतभाषाया: संरक्षणे, संवर्धने च महत्त्वपूर्णं कार्यं कुर्वन् अस्ति। संस्कृतभाषाया: प्रचार–प्रसारार्थं तेन दीर्घकालं यावत् निष्ठया कृतं कार्यं समाजे विद्वत्सु च विशेषतया प्रशंसितम् अस्ति। तस्यैव उत्कृष्टसाहित्यिक–शैक्षिकयोगदानस्य मान्यतारूपेण तस्मै प्रतिष्ठितः शैलेशमटियानीपुरस्कार: राज्यसर्वकारेण प्रदत्तः। अनेन सम्मानेन संस्कृतक्षेत्रे कार्यरतविद्वत्सु तथा विद्यार्थिषु नूतना प्रेरणा सम्प्राप्ता।
अस्मिन् सन्दर्भे विद्यार्थिनां शिक्षकाणां च मध्ये संस्कृतविकासविषये विशेषसंवादः चमोलीवर्येण सह अभवत्। अयं साक्षात्कारः श्री नवीनपन्तवर्यस्य सौजन्येन सम्प्राप्त: अस्मिन् अवसरे प्राचार्येण चमोलीवर्येण संस्कृतभाषाया: वर्तमानस्थिति:, तस्याः विकासस्य आवश्यकता:, छात्राणां भूमिका च विस्तरेण निरूपिता। स्ववक्तव्ये चमोलीवर्येण उक्तं यत् अद्यतनकाले अपि संस्कृतछात्राः शिक्षकाः च अनेकासु विकटपरिस्थितिषु स्थित्वापि संस्कृतहिताय समर्पितभावेन कार्यं कुर्वन्ति। संसाधनानां न्यूनतायामपि ते निरन्तरं अध्ययन–अध्यापनकार्ये संलग्नाः सन्ति। एषा निष्ठा संस्कृतभाषाया: उज्ज्वलभविष्यस्य संकेतः इति तेन प्रतिपादितम्।
आधुनिक शिक्षया सह संस्कृतवाङ्मयस्य अध्यापनम् आवश्यकं
तेन अपि सूचितं यत् शासनप्रशासनस्य सहयोगेन तथा विदुषां मार्गदर्शनेन महाविद्यालयस्य सर्वाङ्गीणविकासः निरन्तरं वर्धमानः अस्ति। अधुना महाविद्यालये प्रायः २३० छात्राः अध्ययनरताः सन्ति, यत् संस्कृतभाषाया: प्रति विद्यार्थिनां वर्धमानां रुचिं स्पष्टतया दर्शयति। चमोलीवर्येण अपि प्रतिपादितं यत् आधुनिकसमये आधुनिकशिक्षणपद्धत्याः सह संस्कृतवाङ्मयस्य अध्यापनं आवश्यकम् अस्ति। परम्परागतज्ञानपरम्परायाः संरक्षणं कृत्वा तस्य आधुनिकप्रयोगेषु उपयोगः करणीयः। तेन संस्कृतभाषा न केवलं परम्परायाः प्रतीकः, अपि तु आधुनिकज्ञानस्य अपि आधाररूपेण विकसितुं शक्नोति। तथापि तेन एतदपि स्पष्टतया कथितं यत् पर्याप्तछात्रसंख्यायामपि विषयानुकूलशिक्षकाणां पूर्णोपलब्धिः अद्यापि न विद्यते। महाविद्यालयस्य समुचितविकासाय नूतनपदानां सृजनं तथा शिक्षणसंसाधनानां संवर्धनम् अत्यावश्यकम् अस्ति। यदि शासनप्रशासनं तथा समाजः सम्यक् सहयोगं करिष्यति, तर्हि संस्कृतशिक्षायाः विकासः अधिकवेगेन सम्भविष्यति।
पुरस्कारप्राप्त्याः सन्दर्भे चमोलीवर्येण राज्यसर्वकारं प्रति कृतज्ञता व्यक्ता। तेन उक्तं यत् एतत् सम्मानं केवलं तस्य व्यक्तिगतं नास्ति, अपि तु संस्कृतभाषायाः सेवायां निरताः सर्वे विद्वांसः, शिक्षकाः, छात्राः च अस्य भागिनः सन्ति। एषः पुरस्कारः संस्कृतसेवायाः प्रति समर्पितानां सर्वेषां जनानां प्रयासानां मान्यतारूपः अस्ति। एवं डा. बलदेवप्रसादचमोलीवर्यस्य नेतृत्वे महाविद्यालये संस्कृतशिक्षाया: नूतना चेतना जागृता दृश्यते। विद्यार्थिनां वर्धिता संख्या, संस्कृताध्ययने रुचिवृद्धिः, तथा शिक्षणकार्यस्य निरन्तरता — एते सर्वे तस्य नेतृत्वस्य सफलतां सूचयन्ति। तस्य कार्यं संस्कृतभाषाया: उन्नतये तथा भारतीयसंस्कृतेः संरक्षणाय महत्त्वपूर्णं योगदानं मन्यते।











