किं भोः वसन्तः आगतः ? पश्य, पश्य! वसन्तः आगतः । आगतः प्रियः वसन्तः धरणौ । पीतानि सर्षपपुष्पाणि दृष्ट्वा सर्वत्र कोलाहलम्, सर्वत्र कौतूहलम्। वसन्तः आगतः, आगतः वसन्त इति। यथा कोऽपि महामान्यः आगतः । यथा प्रोषित-पतिकायाः प्रवासंगतः पतिः आगतः। यथा कोऽपि देवः आगतः। यथा कुबेरस्य निधिः आगतः । यथा मृते प्राणाः आगताः । यथा धरायां स्वर्गः आगतः । यथा वनंगतः रामः आगतः। यथा गोकुलात् मथुरां गतः कृष्णः आगतः। एवं प्रसन्नता एव प्रसन्नता; उल्लासः एव उल्लासः ।
सर्वत्र सर्वस्मिन् प्रसन्नता प्रसृता । सूर्यः प्रसन्नः, चन्द्रः प्रसन्नः। दिवसः प्रसन्नः, रात्रिः प्रसन्ना। प्रभातं प्रसन्नम्, सन्ध्या प्रसन्ना। दिशः प्रसन्नाः, विदिशः प्रसन्नाः । वनं प्रसन्नम्, वाटिका प्रसन्ना। तरवः प्रसन्नाः गुल्माः प्रसन्नाः। लताः प्रसन्नाः, तृणानि प्रसन्नानि । बालाः प्रसन्नाः, वृद्धाः प्रसन्नाः। को न प्रसन्नः आगते वसन्ते? सर्विस्मन् नवत्वं समागतम्, यौवनं समागतम्। वृद्धा अपि युवानः जाताः ।
ऋतुराजस्य राज्ये प्रेम्णः वर्षणम्। सर्वं समत्वं व्याप्नोति। त्रिविधो वायुः मन्त्रित्वम् अलङ्कृत्य आत्मनः गुणं वितनोति, वितरति च। कोमल स्पर्शेन सर्वान् स्पृशन् पृच्छति- तात! स्वस्थोऽसि नु! मातः! सुखम् अनुभवसि नु! भ्रातः ! प्रसन्नोऽसि नु! सखे! मदीयम् औषधैः मोदः प्रमोदः आमोदश्च वर्धन्ते नु! सखि! कीदृशी असि ? मदीयैः अनुभावैः सुखम् अनुभवसि नु! बालान् बालिकाश्च स्निह्यन् कथयति- वर्धस्व, वर्धस्व।
वृन्ते वृन्ते पुष्पाणि मोदन्ते, हसन्ति, शोभन्ते, सुखं दर्शयन्ति च। लघुतमात् बृहत्तमान् यावत् सर्वे पादपाः नवं नवं पत्रं पुष्पं धृत्वा प्रसार्य च समृद्धिं प्रदर्शयन्ति। मधुमक्षिकाणां सौभाग्यवृद्धिः जाता। ताः सानन्दं परमानन्दं रसानन्दं लभन्ते। गृहे पुष्परसं संगृह्य सञ्चयं च कुर्वन्ति। मनश्चलाः, कितवाः भ्रमराः अधिकाः लम्पटायन्ते । कदाचित् अस्याः कलिकायाः तु कदाचित् तस्याः कलिकायाः रसं पीत्वा मद्यपा इव चलन्ति, प्रलपन्ति च । खगाः कलरवेण पूरयन्ति धरत्याः आकाशस्य च हृदयम् ।
पतिविरहे कृष्णा कोकिला वने कूजति । मन्ये; शिवेन दग्धे पतौ पुनर्मिलनस्य आशायाम् इतस्ततः अन्विष्यन्ती कूजन्ती च रतिः पृच्छति- प्रिय! कुत्रासि, कुत्रासि? धव! कदा आगमिष्यसि, कदा आगमिष्यसि ? कथं न प्रत्यक्षी भवसि ? तव विरहे सीदति मम मनः । आगत्य पश्य; कीदृशी विरहदग्धा तव प्रिया? त्वां विना न रोचते किमपि कदापि कुत्रापि । मम रोदनं श्रुत्वा सर्वे उपहसन्ति, आनन्दन्ति च । उपहास्याहं यत् बालका अपि मम रोदनस्वरम् अनुकुर्वन्ति। आगच्छ रे मम प्राणनाथ! आगच्छ। मा रोदय, मा रोदय। अहं पक्षिणीव उड्डयन्ती तव अभिज्ञाने । उड्डीय- अवडीय वने वने, उपवने उपवने अन्वेषण- तत्परा उद्विग्ना च। आगच्छ नु! आगच्छ प्रियतम ! पीडिताः प्राणाः खगवत् उड्डयितुकामाः। गतेषु प्राणेषु आगत्य किं करिष्यसि ?
वसन्तः सर्वप्रियः ऋतुः । सर्वत्र उत्साह एव उत्साहः । उत्साहे रञ्जनाय रङ्गक्रीडा अपि समागता । युवक-युवतीनां प्रियः उत्सवोऽयम्। बालानाम् अपि प्रियकरः अभवत्। ते सर्वे शृङ्गके (पिचकारी) रङ्गं पूरयित्वा परस्परं सङ्गिषु क्षिपन्ति, हसन्ति, क्रीडन्ति, कूर्दन्ति च। श्वशुरालये आगतस्य महामान्यस्य स्वागतं येन प्रकारेण भवेत्, तेन तु भवति एव, परन्तु तस्य श्यालाः श्याल्यः च आत्मसङ्गिभिः सह तस्य रङ्गाभिषेकम् अपि करणे तत्पराः। अत्युत्साहे विनोदशीलाः परिहासे परिहासे तं पकेऽपि उत्थाय पातयन्ति, हसन्ति च ।
शृङ्गाररस्य आलयोऽयम् ऋतुः । अस्मिन् ऋतौ अपि फाल्गुनः मासो ऽयम् अस्य यौवनकालः इव। सर्वेषां मनः मध्यते वसन्तमित्रेण कामेन।मधोः भ्रातृजाया रतिरपि न शान्ता। सापि स्वजातीयानां मनसि प्रविश्य उद्वेलयति। अतः रसिकाः रसम् अन्वेष्टुं मधुगन्ध-लुब्धाः मधुपा इव भ्रमन्ति। इदमेव कारणं यत् लोकैः कथ्यते फाल्गुन-पर्यन्तं वृद्धोऽपि देवरायते। यत्र तत्र वासन्तिकस्य गीतस्य, अधुना लोकगीतेषु फागस्य ध्वनिः सर्वत्र प्रसृतः। कोऽपि गायति, कोऽपि वाद्यं वादयति, कोऽपि नृत्यति च । सहगानेन सङ्गीतस्य माधुर्यं वातावरणे मादकतां प्रसरति । कोऽपि एकाकी भ्रमन् गायति, तु केचन गोष्ठ्याम् एव।
धन्योऽयं मधुमासः। सर्वत्र सुख-साम्राज्यं प्रसार्य सर्वतोषकरः। परन्तु; विरहिणां विरहिणीनां च कृते कथं मर्मन्तुदोऽयम्? निवेदनम्, प्रार्थनम्- शृणु हे मधो! पक्षपाती मा भव, मा भव। तेषां तासाम् अपि दुःखं हर। हे ब्रह्मणः पुत्र ! पितरं विधातारं कथयित्वा लिखितं विरहजन्यं दुःखं विघटयितुं प्रयत्नं कुरु; प्रयत्नं कुरु ।











