सर्वकारेण विमान-संस्थाः आदिष्टाः यत् यात्रिभ्यः उचित-सौलभ्यप्रदानाय विमानस्य आसन-चयने न्यूनतम् षष्टि-प्रतिशतं आसनानि निःशुल्कं प्रापयेयुः इति। नागरिकोड्डयन-मन्त्रालयेन अद्य नागरिक उड्डयन-महानिदेशालयस्य माध्यमेन यात्रिणाम् सौलभ्यं, पारदर्शितां तथा च सर्वासु विमान-संस्थासु समान-कार्यप्रणालीं सुदृढीकर्तुं नूतनाः निर्देशाः निस्सारिताः। मन्त्रालयेन निर्दिष्टं यत् एकेनैव पी.एन.आर. इति क्रमेण यात्रां कुर्वन्तः यात्रिणः एकत्रैव उपावेशनीयाः, यथासम्भवं च तेभ्यः समीपस्थ-आसनानि प्रदातव्यानि। तत्र सूचितं यत् क्रीडा-सामग्याः वाद्य-यन्त्राणां च परिवहन-सुविधा पारदर्शितया यात्रानुकूल-रीत्या च प्रदातव्या । विमान-संस्थाभ्यः पालित-पशूनां वहन-विषये अपि स्पष्टाः नीतिनिर्माणार्थ निर्देशाः दत्ताः। सर्वकारेण यात्रिणाम् अधिकारैः सह सम्बद्धानां नियमानां कठोरतया पालनाय अपि आदिष्टम् ।











