पश्चिम-एशियायाः स्थितौ पेट्रोलियम, अशोधित तैल , वातीन्धन, ऊर्जा, उर्वरकादीनां च क्षेत्राणां स्थितिं समीक्षितुं प्रधानमन्त्रिणा नरेन्द्रमोदिना उच्च-स्तरीय-उपवेशनस्य अध्यक्षता कृता। नवदिल्ल्याम् आयोजितः सम्मेलनः, सम्पूर्ण देशे अविरामपूर्ति, सुस्थिरं रसदं, दक्षं वितरणं च सुनिश्चेतुं केन्द्रितः आसीत्। रक्षामंत्री राजनाथसिंहः, गृहमन्त्री अमितशाहः, वित्तमन्त्री निर्मला सीतारमनः, विदेशमन्त्री एस. जयशङ्करः, कृषिमन्त्री शिवराजसिंह चौहानः, पेट्रोलियम-प्राकृतिकगैस मन्त्री हरदीपसिंह पुरी, वाणिज्य-उद्योग-मन्त्री पीयूष गोयलः, रसायन-उर्वरक-मन्त्री जे. पी. नड्डाः, नागरिक उड्डयन मन्त्री के. राममोहन-नायडुः, ऊर्जामन्त्री मनोहरलालः, सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः सभायां उपस्थिताः आसन्।
प्रशासनेन पुनः आश्वासितं यत् सम्पूर्ण देशे आवश्यकेन्धनानां अभावः नास्तिीति, तैल शोघागाराणि उच्चक्षमतया कार्यं कुर्वन्ति, पेट्रोल-डीजल-इन्धनयोः पर्याप्तं भण्डारम् उपलभ्यते। आपणेषु अभावः नास्ति। एकस्मिन् वक्तव्ये पेट्रोलियम-प्राकृतिकगैस मन्त्रालयः अवदत् यत् एल.पी.जी. सिलिण्डर इत्यस्य वितरणं सामान्यम् एव अस्ति। गुप्तरूपेण संग्रहणम् अपि न्यूनम् अभवत्। राज्यानां कृते वाणिज्यिक -एल.पी.जी. वितरणम् अपि वर्धितम् अस्ति, यत्र शैक्षणिकसंस्थाः, चिकित्सालयाः इत्यादीनां प्रमुखक्षेत्राणां कृते प्राधान्यम् प्रदत्तम् अस्ति। अत्रान्तरे, पत्तन-पोत-परिवहन-जलमार्ग-मन्त्रालयः अवदत् यत्, नौवहनस्य गतिविधिः, नौकाश्रय-प्रचालनं, भारतीयानां नाविकानां सुरक्षां च निकटतया निरीक्षमाणः अस्ति येन समुद्रीयव्यापारस्य निरन्तरता सुनिश्चितं भवेत्।
सर्वकारेण राज्येभ्यः वाणिज्यिक एल. पि. जि. इति वात्यन्धनकोषाणां विंशतिः प्रतिशतं इतोऽपि आवंटनाय अनुमोदनं, कृतअस्ति। आवंटनमिदं पी. एन. जी. इत्यस्य दशप्रतिशतादतिरिच्य वर्तते आहत्य आवंटनं पञ्चाशत्प्रतिशतं यावत् भविष्यति। अतिरिक्तमिदम् आबंटनं प्राथम्येन भोजनालयेषु, ढाबाख्येषु आहारालयेषु, होटलाख्येषु विश्रामस्थलेषु, औद्योगिक-भोजनालयेषु, दुग्धशालासु, राज्येन अथवा स्थानीय निकायैः सञ्चालितेषु अनुदान-प्राप्त-भोजनालयादिषु प्राधान्येन दीयते। एतस्मिन् विषये पेट्रोलियम-प्राकृतिकगैस् मन्त्रालयस्य सचिवः नीरज् मित्तलः सर्वेषां राज्यानां केन्द्रशासितप्रदेशानाञ्च मुख्यसचिवेभ्यः पत्रम् अलिखत् यत् एतत् आबंटनं त्रयोविन्शति मार्च , सोमवासरात् प्रवर्तयिष्यते इति।











