‘वाक्’ इति संस्कृत-पाक्षिक-समाचारपत्रम् अद्य स्वस्य चतुर्विंशतिं वर्षाणि सफलतया पूर्णानि कृतवान्। एतत् पत्रं प्रथमवारं २००२ तमे वर्षे रामनवमी-दिने प्रारब्धम् आसीत्। तदा एतत् उत्तराखण्ड-राज्यस्य प्रथमं संस्कृत-समाचारपत्रम् अभवत्, यत् राज्ये संस्कृतभाषायाः प्रचारे महत्त्वपूर्णां भूमिकां निर्वहति स्म।
अस्य पत्रस्य संस्थापकः स्वर्गीयः डॉ० बुद्धदेव शर्मा महोदयः संस्कृतभाषायाः व्यावहारिक-प्रयोगस्य दृढसमर्थकः आसीत्। सः निरन्तरं प्रयासं कृतवान् यत् संस्कृतभाषा केवलं पाठ्यविषयः न भवेत्, अपितु दैनन्दिनजीवने अपि उपयुज्येत। तेन उत्तराखण्ड-राज्ये संस्कृतभाषां राजभाषारूपेण स्थापयितुं अपि बहवः प्रयत्नाः कृताः।
डॉ० शर्मा महोदयः देशव्यापि संस्कृतभाषायाः प्रसाराय न केवलं पत्रिकायाः माध्यमेन, अपि तु संस्कृत-नाटकानां मंचनम्, बालकानां कृते लघुकथापुस्तकानां रचना च कृतवान्। ‘वाक्’ पत्रं तस्य महानस्य उद्देशस्य एकं प्रमुखं साधनम् आसीत्, येन संस्कृतभाषायाः ज्योतिः जनमानसेषु प्रज्वलिता अभवत्।
अद्य रामनवमी-पर्वणि एतत् पत्रं स्वस्य चतुर्विंशतिवर्षपूर्तिं आनन्देन आचरति। अस्मिन् अवसर विशेषे ‘वाक्’ परिवारः सर्वेभ्यः पाठकेभ्यः हार्दिकां कृतज्ञतां निवेदयति, येषां विश्वासेन, समर्थनस्य च कारणेन एषा यात्रा अद्यावधि निरन्तरा अस्ति।
यद्यपि डॉ० बुद्धदेव शर्मा महोदयः २०२० तमे वर्षे स्वदेहम् त्यक्त्वा दिवंगतः अभवत्, तथापि तस्य स्वप्नम् अद्यापि जीवति। ‘वाक्’ पत्रं तस्यैव मिशनस्य प्रकाशं धारयन्, संस्कृतभाषायाः प्रचारं निरन्तरं कुर्वन् अग्रे गच्छति।
अस्याः चतुर्विंशतिवर्षीयायाः यात्रायाः सफलतायां सर्वेषां पाठकानां योगदानम् अमूल्यम् अस्ति। भविष्ये अपि भवन्तः एव अस्माकं प्रेरणास्त्रोतः भविष्यन्ति इति विश्वासः।











