रामनवमी २०२६ – तिथि, पूजामुहूर्तम् तथा महत्वम्

रामनवमी इति पर्व हिन्दुधर्मे अत्यन्तं महत्त्वपूर्णं मन्यते। एतत् पर्व चैत्रनवरात्रेः अन्तिमे दिने आचर्यते तथा भगवान् श्रीरामस्य जन्मोत्सवरूपेण सम्पूर्णे भारतवर्षे श्रद्धाभक्तिभ्यां सह उल्लसिततया मन्यते।
हिन्दुधर्मे रामनवम्याः विशेषं स्थानम् अस्ति। अयं दिवसः भगवान् श्रीरामाय समर्पितः अस्ति। शास्त्रेषु उक्तं यत् त्रेतायां युगे चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ अयोध्यानगरे भगवान् श्रीरामः अवतीर्णः। तस्मात् कालात् आरभ्य अस्यां तिथौ प्रतिवर्षं रामनवमीपर्वणः आयोजनपरम्परा प्रवर्तते।
अयं दिवसः धर्मस्य अधर्मेण सह जयस्य प्रतीकः अपि मन्यते। अस्मिन् दिने भक्ताः उपवासं कुर्वन्ति, देवालयेषु विशेषपूजा-अर्चना क्रियते, तथा रामनामस्मरणेन वातावरणं पवित्रं भवति।
वर्षे २०२६ तमे रामनवमीपर्व २६ मार्च-दिने आचर्यते। अस्मिन् दिने रवियोगः सर्वार्थसिद्धियोगश्च भविष्यतः, येन अस्य पर्वणः महत्त्वं अधिकं वर्धते।
तिथिविवरणम्
पञ्चाङ्गानुसारं चैत्रमासस्य शुक्लपक्षस्य नवमी तिथिः २६ मार्च २०२६ दिने प्रातः ११:४६ वादने आरभ्यते तथा २७ मार्च २०२६ दिने प्रातः १०:०७ वादने समाप्ता भविष्यति। रामायणस्य प्रमाणेन भगवान् श्रीरामस्य जन्म मध्यान्हकाले अभवत्, अतः २६ मार्च दिने पर्वोत्सवः आचरितुं विशेषतः शुभः मन्यते। ये जनाः उदयातिथेः आधारेण पर्व मन्यन्ते, ते २७ मार्च दिने अपि रामनवमीं आचरितुं शक्नुवन्ति।
२६ मार्च २०२६ – शुभमुहूर्तम्
सूर्योदयः – प्रातः ०६:१९
मध्यान्हमुहूर्तम् – प्रातः ११:१४ तः अपराह्ण ०१:४१ पर्यन्तम्
मध्यान्हक्षणम् – १२:२५
२७ मार्च २०२६ – शुभमुहूर्तम्
सूर्योदयः – प्रातः ०६:१६
मध्यान्हमुहूर्तम् – प्रातः ११:१३ तः अपराह्ण ०१:४१ पर्यन्तम्
मध्यान्हक्षणम् – १२:२७
रामनवमी भगवान् श्रीरामस्य अवतरणस्य स्मरणदिवसः अस्ति। श्रीरामः धर्मस्य, सत्यस्य, मर्यादायाश्च आदर्शरूपेण पूज्यते। श्रद्धया विधिपूर्वकं पूजनं कृत्वा जनाः जीवनस्य सुखं, शान्तिं समृद्धिं च प्राप्नुवन्ति इति विश्वासः अस्ति।
पौराणिककथानुसारं भगवान् विष्णुः त्रेतायां युगे राक्षसानां विनाशाय धर्मसंस्थापनार्थं च श्रीरामरूपेण अवतीर्णः। अतः रामनवमी न केवलं उत्सवः, अपि तु धर्मपालनस्य प्रेरणादायकः पवित्रदिवसः अपि अस्ति।