संवादक: प्रवेशकुमारशुक्ल:
श्रीगुरुवशिष्ठगुरुकुल विद्यापीठ वेदपाठशाला दर्शननगर परिसरे, अयोध्यायां नवनिर्मितयज्ञशालायाः वैदिकमन्त्रोच्चारणेन सह लोकार्पणम् अभवत्। अस्य यज्ञशालायाः निर्माणं प्रतापगढ़जिलायाः इसीपुर निवासी उमेशप्रतापसिंहः तस्य धर्मपत्नी सुनीतासिंहः च स्वमातुः स्मृतौ पञ्चदशलक्षरूप्यकैः कारितम् अस्ति। यज्ञशाला लालसुर्खपाषाणेन निर्मिता वर्तते अस्य नवनिर्मितभव्ययज्ञशालायाः श्रीगुरुवशिष्ठसेवान्याससंरक्षक श्रीरामवल्लभाकुंजस्य अधिकारी राजकुमारदासः, राष्ट्रिय स्वयंसेवकसंघ प्रचारक – पूर्वोत्तरप्रदेशक्षेत्र -सम्पर्क -प्रमुख मनोजजी च उपस्थितौ चतुर्वेद – पारायणमन्त्रेण सह लोकार्पणम् अभवत्। अस्मिन् अवसरेऽपि बृहत् संख्यायां उपस्थिताः अभिभावकाः, दानदाता उमेशप्रतापसिंहस्य पिता अमरपालसिंहः अन्यपरिवारजनाः, गुरुकुलप्रबन्धसमितेः डॉ. आरकेः सिंहः, आदर्शसिंह ऋषभः, डॉ. दिलीपसिंहः, भाजपानेता सर्वज्ञसिंहः, भानु तिवारी, आचार्य अक्षय वी देवघर, आचार्य आशुतोष जी, आचार्य अंकुरमिश्र, आचार्य शिवांकर पाठक, आचार्य आर्कजन चटर्जी, आचार्य बृजेश जी, आचार्य राजन जी च उपस्थिताः आसन् लोकार्पणात् पूर्वं नवरात्रौ नवदिनानि यावत् देवी भगवती पूजनम्, अनुष्ठानम्, दुर्गासप्तशती पाठः च सम्पन्नः। पूजने यजमानरूपेण यज्ञशालायाः निर्माणं करणवन्तौ उमेशप्रतापसिंहः, तस्य पत्नी सुनीतासिंहः च विशेषरूपेण उपस्थितौ। कार्यक्रमे धर्मनगरीयाः विशिष्टजनाः, सन्त-महन्तः, धर्माचार्याः आचार्यगणाः च उपस्थिताः। आचार्यैः वेदमन्त्रैः यज्ञशालायाः लोकार्पणम् करितम्।











