काञ्चीपुरम् (तमिलनाडु) इत्यस्य पावनधरायां मध्यप्रदेशस्य गौरवम्: भुवनमोहनवशिष्ठः राष्ट्रियस्तरे सम्मानितः

संवादक: प्रवेशकुमारशुक्ल:

सप्तपुरीषु प्रधानायां ज्ञानस्याधिष्ठात्र्यां च नगर्यां काञ्चीपुरम् (तमिलनाडु) इत्यत्र केन्द्रीयसंस्कृतविश्वविद्यालयेन (नवदेहली) आयोजितस्य ६३ तमस्य अखिलभारतीयशास्त्रीयस्पर्धोत्सवस्य अवसरे मध्यप्रदेशस्य मेधाविना छात्रेण स्वप्रतिभायाः ध्वजः उत्तोलितः। अस्मिन् भव्यसमायोजने काञ्चीकामकोटिपीठस्य पूज्यपादानां जगद्गुरुशङ्कराचार्याणां सान्निध्ये देशस्य मूर्धन्यविदुषां जिज्ञासूनां च अपूर्वः सङ्गमः दृष्टः।
अस्मिन् राष्ट्रियस्तरीये महोत्सवे भारतस्य प्रायः २३ प्रान्तेभ्यः आगताः लब्धप्रतिष्ठिताः विद्वांसः प्रकाण्डाः छात्रछात्राश्च सम्मिलिताः अभवन्। आयोजनस्य अन्तर्गते शास्त्रार्थ-शलाकापरीक्षा-कण्ठपाठ-भाषणप्रतियोगितासदृशाः कठिनाः बौद्धिकस्पर्धाः आयोजिताः, यासु प्राचीनज्ञानविज्ञानस्य गूढरहस्यानां मन्थनम् अभवत्।
‘भारतीयज्ञानपरम्परा’ इति गौरवपूर्णप्रतियोगितायां केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य (मध्यप्रदेशः) प्रतिनिधित्वं कुर्वन् भुवनमोहनवशिष्ठः (आचार्यवेणीप्रसादवशिष्ठस्य सुपुत्रः) स्वकीयां वाग्मितां शास्त्रबोधं च प्रदर्शितवान्। सः ‘भारतीयज्ञानपरम्परा’ इति विषये भाषणस्पर्धायां सम्पूर्णदेशे तृतीयस्थानं सम्प्राप्य न केवलं स्वविश्वविद्यालयस्य कुलपरिवारस्य च मानं वर्धितवान्, अपितु सम्पूर्णमध्यप्रदेशस्य ज्ञानपरम्परामपि गौरवान्वितां कृतवान्।
काञ्च्याः अस्यां पुण्यभूमौ शङ्कराचार्याणां सान्निध्ये प्राप्ता इयमुपलब्धिः संस्कृतजगते शैक्षणिकक्षेत्रे च अतीव सम्मानदृष्ट्या दृश्यते। तस्य अस्यां सफलतायां विश्वविद्यालयस्य आचार्यवृन्दैः मित्रैश्च हर्षः प्रकटितः, तस्य यशस्वीभविष्याय मङ्गलकामनाश्च कृताः।