ईरान-अमेरिका-संघर्षसम्बद्धायाः शान्तिवार्तायाः प्रयत्नाः विफलाः, द्वितीयचरणस्य चर्चायाः विषये अनिश्चितता वर्तते।

ईरान-अमेरिका-युद्धसम्बन्धे शान्तिवार्तां कर्तुं पाकिस्तानदेशे उभयतः प्रयत्नाः कृताः, किन्तु सर्वे प्रयत्नाः निष्फलाः अभवन्। इस्लामाबाद-नगरे प्रथमचरणस्य वार्ता असफलाभूत्, ततः द्वितीयचरणस्य वार्तायाः समाचारः प्राप्तः, तथापि अस्य विषये अद्यापि भ्रमः विद्यते। ईरान-अमेरिका-देशयोः पक्षतः वार्तासम्बन्धे काचिदपि स्पष्टता अद्यापि न प्रकाशिताभूत्।
इजरायल-अमेरिका-देशाभ्यां कृतानां संयुक्ताक्रमणानां अनन्तरं स्थितिः निरन्तरं तनावपूर्णा वर्तते। ईरानदेशे बहवः आक्रमणाः कृताः, तेषां प्रत्युत्तररूपेण ईरानदेशेन अपि प्रत्याक्रमणं कृतम्। अस्मिन् मध्ये इस्लामाबादे शान्तिवार्तायाः प्रयत्नाः कृताः सन्ति, किन्तु अद्यावधि युद्धसम्बन्धे काचिद् दृढा सार्थका वा वार्ता न सम्भविता।
मध्यपूर्वप्रदेशे विद्यमानं तनावं न्यूनकर्तुं इस्लामाबादे अमेरिका-ईरान-देशयोः मध्ये द्वितीयचरणस्य वार्तायाः चर्चा प्रवर्तते। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्प् स्वीयं प्रतिनिधिमण्डलं प्रेषयितुं उक्तवान्, किन्तु ईरानदेशस्य पक्षतः अद्यापि संशयः विद्यमानः।
ईरानदेशः ट्रम्प्-प्रदत्तधमकीनां होर्मुज-सङ्कोचिकायां (Strait of Hormuz) अमेरिकादेशेन कृतनिषेधस्य च कारणेन असन्तुष्टः सन् पाकिस्तानगमनं प्रत्याख्यातवान्। वर्तमानकाले स्थितिः तनावपूर्णैव अस्ति, सङ्कटं च अद्यापि न निवृत्तम्। ईरानदेशः इस्लामाबादे भविष्यति वार्तायां सहभागं करिष्यति वा न वा, अस्य विषये अद्यापि काचिदपि नूतना सूचना न प्राप्ता। तथापि, ईरानदेशेन कूटनीतिपथे द्वारं पूर्णतया न निरुद्धम् इति मन्यते, अतः वार्तायाः सम्भावना अद्यापि विद्यते।
ईरानसंसदः अध्यक्षः मोहम्मद्-बागेर्-गालिबाफ् अस्य विषये स्पष्टं संकेतं न दत्तवान्। ‘अल्-जज़ीरा’ इत्यस्य प्रतिवेदनानुसारं सः उक्तवान् यत् ईरानदेशः वार्तायै सज्जः अस्ति, किन्तु अमेरिकादेशेन आरोपितेषु शर्तेषु न। तेन अपि उक्तं यत् ईरानदेशः संघर्षस्य विकल्पाय अपि सज्जः अस्ति। ईरानराष्ट्रपतेः कार्यालये सञ्चार-सूचना-विभागस्य उपाध्यक्षः सय्यद् मेहदी तबातबाई उक्तवान्— “ईरानी-राष्ट्रेण सदा शान्तिः स्थैर्यं च एव चयनितम्, यद्यपि शत्रवः अस्माकं मौनं समर्पणं च अपेक्षन्ते। वयं किमपि उल्लङ्घनं न कृतवन्तः न च करिष्यामः, किन्तु स्वस्य रक्षणं कृतवन्तः स्मः अग्रे अपि करिष्यामः। वयं आक्रमणकर्तारं तस्य कृत्ये विषये पश्चात्तापं कर्तुं बाध्यं करिष्यामः, पुनः तथा साहसं कर्तुं तस्य इच्छां मूलतः नाशयिष्यामः।”
अन्तार्राष्ट्रीय-सामुद्रिक-सङ्घटनस्य (IMO) प्रमुखः उक्तवान् यत् होर्मुज-सङ्कोचिकायां (Strait of Hormuz) नौपरिवहनस्य स्वातन्त्र्यस्य समर्थनार्थं स्थिताः देशाः सम्यक् सन्देशं ददति। ईरान-अमेरिका-देशयोः मध्ये वर्धमानः तनावः वैश्विक-नौपरिवहनाय संकटं जनयति।
अमेरिका-ईरान-देशयोः मध्ये विद्यमानं युद्धविरामं शीघ्रमेव समाप्तुं सम्भाव्यते। अस्मिन् मध्ये अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् पुनः ईरानदेशं प्रति धमकीं दत्तवान्। ट्रम्प् स्पष्टं कृतवान् यत् यावत् ईरानदेशेन सह सम्झौता न भविष्यति, तावत् होर्मुज-सङ्कोचिकायां अमेरिकादेशस्य नाकाबन्दी प्रवर्तिष्यते।
अमेरिकादेशस्य उपराष्ट्रपतिः जेडी वेन्स् ईरानसम्बद्धविषयेषु चर्चां कर्तुं पाकिस्तानदेशस्य यात्रां कर्तुं शक्नोति। किन्तु ‘Axios’ इत्यस्य प्रतिवेदनानुसारं तेहरान-नगरं स्वीयवार्तायै इस्लामाबाद-गमनं विलम्बयति। ईरानदेशेन स्पष्टं कृतं यत् यावत् अमेरिकादेशः स्वीयाः प्रतिबन्धाः (नाकाबन्दी) न निवर्तयति, तावत् वार्ता न भविष्यति।