बुद्धपूर्णिमा २०२6

बुद्धपूर्णिमा २०२६ : बुद्धपूर्णिमा, बुद्धजयन्ती अथवा वेसाक् इति अपि प्रसिद्धः, बौद्धधर्मस्य पवित्रतमदिवसेषु अन्यतमः अस्ति । २०२६ तमे वर्षे मे १ दिनाङ्के शुक्रवासरे एषः महत्त्वपूर्णः अवसरः प्रबुद्धस्य भगवतः बुद्धस्य २५८८ तमे जन्मदिवसस्य अवसरे आचर्यते।

इदं पर्व जगति विशेषतः भारते वैशाखपौर्णिमायाम् आचर्यते । अस्मिन् दिने एव गौतमबुद्धस्य जन्म, ज्ञानप्राप्तिः महापरिनिर्वाणं च इति तिस्रः अपि घटनाः जाताः आसन् । स्वस्य मानवतावादिनां विज्ञानवादिनां धम्मसिद्धान्तानां कारणात् तथागतः बुद्धः जगति महापुरुषत्वेन गुरुत्वेन च परिगण्यते । बौद्धधर्मीयानाम् अधिकसङ्ख्यावत्सु चीन-जपान-व्हियेतनाम-थायलंड-भारत-म्यानमार-श्रीलङ्का-सिङ्गापूर-अमेरिका-कम्बोडिया-मलेशिया-नेपाल-इण्डोनेशियादेशेषु तथैव जगति १८० देशेषु बौद्धजनाः इदं पर्व उत्साहेन आचरन्ति । एतेषु बहुषु देशेषु बुद्धजन्मपर्वणः सार्वजनिकः विरामः अपि भवति । भारते अपि बुद्धजन्मपर्वणः निमित्तकः सार्वजनिकः विरामः भवति ।

बुद्धपौर्णिमायां समग्रजगतः बौद्धानुयायिनः बोधगयाम् आगत्य प्रार्थनां कुर्वन्ति । बिहारराज्ये स्थितं बोधगया इति क्षेत्रं बौद्धधर्मानुयायिनां पवित्रं तीर्थक्षेत्रम् अस्ति । गृहत्यागात् परं सिद्धार्थेन सत्यस्य अन्वेषणार्थं सप्तवर्षं यावत् तीव्रा साधना तपः च आचरतम् । ततः बोधगयायां बोधिवृक्षस्य अधः सः बुद्धत्वम् अथवा ज्ञानप्राप्तिम् अलभत । एषा घटना वैशाखपौर्णिमायां जाता । तदाराभ्य एषः दिवसः बुद्धपौर्णिमा इति नामा विख्यातः अस्ति । बुद्धपौर्णिमासमये कुशीनगरे महापरिनिर्वाणविहारे एकमासं यावत् तथागतबुद्धस्य स्मरणं क्रियते । इदं स्थलं यद्यपि गौतमबुद्धेन सम्बद्धम् अस्ति तथापि परिसरे विद्यमानाः अन्ये जनाः अपि अत्र महता प्रमाणेन आगत्य अत्रत्ये बुद्धविहारे श्रद्धया पूजनं कुर्वन्ति । अस्य विहारस्य माहात्म्यं बुद्धस्य महापरिनिर्वाणेन सम्बद्धम् अस्ति । अस्य विहारस्य स्थापत्यं अजिण्ठागुहायाः विहारसदृशम् अस्ति । अस्मिन् विहारे अन्तिमक्षणे मृत्युशय्यायां स्थितस्य बुद्धस्य ६.१ मीटर् दीर्घा मूर्तिः (भूस्पर्शमुद्रायाः) अस्ति । एषा मूर्तिः रक्तमृत्तिकया निर्मिता अस्ति । यस्मात् स्थलात् मूर्तेः कृते मृदाहरणं कृतं तस्मिन् स्थले एव एषः विहारः निर्मितः अस्ति । विहारस्य पूर्वस्यां दिशि एकः स्तूपः अस्ति । तत्र गौतमबुद्धस्य अन्तिमसंस्कारः जातः ।
बुद्धजन्मोत्सवस्य इतिहासः
डा.बाबासाहेब अम्बेडकरमहोदयस्य अध्यक्षतायां १९५० वर्षे मे मासस्य द्वितीयदिनाङ्के भारते प्रथमवारं देहल्यां बुद्धजन्मोत्सवः आचरितः । अस्मिन् प्रसङ्गे अम्बेडकरमहोदयेन बुद्धस्य जीवनकार्यसम्बद्धाः विचाराः उपस्थापिताः । अस्मिन् समारोहे विभिन्नदेशानां विधिज्ञाः प्रतिनिधयः भिक्षुसमुदायः इति एतेषाम् आहत्य विंशतिसहस्त्रजनानां समुदायः उपस्थितः आसीत् । एवंप्रकारेण भारते बुद्धजन्मोत्सवः आरब्धः । १९५१ वर्षे अम्बेडकरस्य एव अध्यक्षतायां त्रिदिनात्मकः बुद्धजन्मोत्सवः आचरितः । १९५६ वर्षे बाबासाहेबमहोदयेन जीवनस्य अन्तिमः बुद्धजन्मोत्सवः देहल्याम् एव आचरितः । देहल्याः अनन्तरं बाबासाहेबमहोदयेन महाराष्ट्रे अपि बुद्धजन्मोत्सवः आचरणं १९५३ तः आरब्धम् । १९५६पर्यन्त तस्य अध्यक्षतायां प्रमुख-उपस्थतौ च महाराष्ट्रे बुद्धजन्मोत्सवस्य भव्याः कार्यक्रमाः जाताः । महाराष्ट्रे बुद्धजन्मोत्सवस्य कार्यक्रमाः प्रामुख्येन मुम्बयिनगर्यां जाताः । भारते महाराष्ट्रे च बुद्धजन्मोत्सवस्य परम्परायाः आरम्भः बाबासाहेबमहोदयेन कृतः अतः सः भारतस्य सार्वजनिकबुद्धजन्मोत्सवस्य प्रणेता अस्ति ।

‘अन्येषां सर्वेषां धर्मसंस्थापकानां जन्मदिने देशे विरामः अस्ति । तर्हि मानवतायाः सन्देशप्रदायकस्य तथागतस्य बुद्धस्य जन्मदिने किमर्थं विरामः न स्यात् ? अतः नियोजितविरामेषु एकं विरामं न्यूनं कृत्वा अथवा एकं विरामं वर्धयित्वा अस्माकं कृते यच्छन्तु’ इति साग्रहं प्रतिपादनं अम्बेडकरमहोदयेन तस्मिन् समये विद्यामानस्य केन्द्रसर्वकारस्य पुरतः कृतम् । बुद्धजन्मोत्सवस्य विरामः स्यात् इति अभियाचनं १९४२तः आसीत् । अम्बेडकरमहोदस्य प्रयत्नेन प्रभावेन च २७ मे १९५३ दिने केन्द्रसर्वकारेण बुद्धजन्मोत्सवस्य विरामः उद्घोषितः । महाराष्ट्रसर्वकारेण तु तस्मिन् दिने विरामः न उद्घोषितः । एतेषां प्रसङ्गानाम् उल्लेखं स्वयं बाबासाहेबमहोदयः एव १९५३ वर्षे मुम्बयिनगरे बुद्धजन्मोत्सवस्य भाषणप्रसङ्गे कृतवान् ।

बुद्धजन्मोत्सवस्य महत्त्वम्
जगतः दुःखानि नाशयितुं गौतमबुद्धः विभिन्नान् मार्गान् अनुसृतवान् । तदर्थं गृहदारादिकं सर्वं विहाय ध्यानमार्गं तपसः मार्गम् अपि सः अनुभूतवान् । परं वैशाखशुद्धपौर्णिमायां सः ज्ञानं प्राप्तवान् दुःखस्य मूलं नाशयितुं मार्गं प्राप्तवान् । एषा पौर्णिमा एव बुद्धपौर्णिमा इति नाम्ना आचर्यते ।

आरम्भकाले प्रथमावस्थायाः बौद्धधर्मः सरलः सुगमः नैतिकतत्त्वावधिष्ठितः मानवता-करुणा-समतानां पुरस्कर्ता च आसीत् । अस्मिन् काले बुद्धः असामान्यगुणवान् परं मनुष्यदेहधारी एव अस्ति इति विश्वासः आसीत् । सः बोधिवृक्षस्य अधः संबोधि अर्थात् ज्ञानं प्राप्तवान् अर्थात् अस्मिन् जगति शाश्वतसत्यानि कानि जगतः व्यवहारः कथं प्रचलति इति एतेषां सम्बद्धानां ज्ञानं प्राप्तवान् । तस्य कृते प्रथमं चतुर्णाम् आर्यसत्यानां साक्षात्कारः जातः । सर्वत्र विवादः कलहः मारणम् इति एतद् दृष्ट्वा जगतः गभीरचिन्तनेन ज्ञायते यत् सर्वत्र दुःखं प्रसृतम् अस्ति । एतद् प्रथमम् आर्यसत्यं तेन ज्ञातम् । दुःखं किमर्थं भवति इत्यस्मिन् सर्दर्भे चिन्तने सः ज्ञातवान् यत् एतद् सर्वं लोभात् तृष्णायाः कारणात् भवति । एकस्य वस्तुनः विषये द्वयोः मनसि तृष्णा (इच्छा_ उत्पन्ना चेत् तस्य वस्तुनः प्राप्त्यर्थं विवादः कलहः युद्धं प्रवर्तते । अतः तृष्णा दुःखस्य मूलम् अस्ति । एतद् द्वितीयम् आर्यसत्यं सः अवगतवान् । यस्य वस्तुनः किमपि कारणं तद् वस्तु कारणे नष्टे नश्यति । इदं शाश्वतं सत्यम् अस्ति । अतः तस्य दुःखस्य निरोधः भवति । इदं तृतीयम् आर्यसत्यं सः ज्ञातवान् । निरोधः भवति चेत् तस्य प्राप्तेः अपि कश्चन उपायः स्यात् । इदं चतुर्थम् आर्यसत्यं सः ज्ञातवान् ।

हिन्दुधर्मीयानाम् इव बौद्धानां कर्मणि पुनर्जन्मनि च विश्वासः नास्ति । अतः जन्ममरणानां संसारचक्रं कथं प्रचलति इति स्पष्टीकर्तुं प्रतीत्य-समुत्पादम् अपि सः अवगतवान् । प्रतीत्य-समुत्पादः नाम किञ्चन वस्तु उत्पद्यते तत् स्वयम्भु न भवति काचित् पूर्वगामिनी कारणपरम्परा तस्य पृष्ठतः भवति । अतः जन्ममरणं कथं भवति इति प्रतिपादिका काचित् कारणपरम्परा अस्ति । एकस्य जन्मनः तस्य पूर्वापरजन्मना सह कीदृशः सम्बन्धः अस्ति इति प्रतीत्यसमुत्पादे उक्तम् अस्ति । (अर्थात् पूर्वजन्म परजन्म भवति । स्वयं गौतमबुद्धस्य अनेकानि जन्मानि जातानि । तस्य जन्मनः कथाः जातककथाः इति कथ्यन्ते । अर्थात् एतानि जन्मानि यता जातानि तदा गौतमबुद्धः नासीत् । )

भारतदेशे जनसंख्यायाः अल्पः भागः एव बौद्धधर्मं अनुसरति, तथापि बुद्धपूर्णिमा नाम महोत्सवः विश्वस्य विभिन्नदेशेभ्यः जनान् आकर्षयति। अस्य उत्सवस्य तिथिः ग्रेगोरियन-पञ्चाङ्गेन निश्चितं न भवति, किन्तु हिन्दूपञ्चाङ्गस्य वैशाखमासस्य पूर्णिमायां दिने उत्सवः आचर्यते। बुद्धपूर्णिमा नम्रता-मानसम्मानयोः आधारेण प्रतिष्ठितः उत्सवः अस्ति।
सिद्धार्थगौतमस्य निधनात् अनन्तरं शताधिकवर्षपर्यन्तं बुद्धपूर्णिमा उत्सवः आचरितः। तथापि, एषः उत्सवः विंशतिशताब्द्याः मध्यभागे एव औपचारिकरूपेण बौद्धधर्मस्य पर्वत्वेन स्वीकृतः। १९५० तमे वर्षे श्रीलङ्कादेशे विश्वबौद्धसङ्घस्य सम्मेलनम् अभवत्। तत्र विद्वांसः निर्णयम् अकुर्वन् यत् बुद्धपूर्णिमा भगवान् बुद्धस्य जन्म, जीवनं, निर्वाणं च सम्मानयितुं आधिकारिकः उत्सवः भविष्यति।
भारतीयबौद्धाः बुद्धपूर्णिमां विविधरीत्या आचरन्ति—
प्रातःकालीनाः विधयः – सूर्योदयात् पूर्वं मन्दिरेषु वा उपासनास्थलेषु जनाः एकत्र मिलित्वा प्रार्थनाः, नृत्यं च कुर्वन्ति। केषुचित् स्थानेषु यात्राः व्यायामाः च भवन्ति। एतत् आरोग्यस्य जीवनस्य च सरलसुखानां प्रति कृतज्ञतां दर्शयति। केचन जनाः स्तोत्रगानं अपि कुर्वन्ति।
बौद्धध्वजस्य आरोहणम् – सूर्योदयानन्तरं मन्दिरेषु अन्येषु च पवित्रस्थानेषु बौद्धध्वजः आरोह्यते। अयं ध्वजः श्रीलङ्कायां उत्पन्नः। अस्य वर्णाः नीलः, रक्तः, श्वेतः, केसरियः, पीतः च सन्ति। नीलवर्णः सर्वेषु जीवेषु करुणां सम्मानं च सूचयति। रक्तवर्णः साधनायाः आशीर्वादं दर्शयति। श्वेतवर्णः धर्मस्य शुद्धतां बोधयति। केसरियवर्णः प्रज्ञायाः प्रतीकः अस्ति। पीतवर्णः मध्यममार्गस्य सूचकः अस्ति।
दानकार्याणि – अनेकेषु बौद्धमन्दिरेषु महोत्सवाः आयोजिताः भवन्ति, यत्र सर्वेषां जनानां कृते निःशुल्ककार्यक्रमाः सन्ति। अतः सहभागीजनाः भिक्षुभ्यः धनं खाद्यं वा दानरूपेण ददति।
पञ्जरस्थितजीवानां मोचनम् – करुणां प्रदर्शयितुं केचन जनाः पञ्जरेषु बद्धान् पक्षिणः अन्यान् जीवांश्च मुक्तवन्ति। एषा प्रथा विश्वे मानवबन्धनस्य नैतिकसमस्यां प्रति अपि ध्यानं आकर्षयति।
एवं बुद्धपूर्णिमा केवलं उत्सवः न, अपि तु करुणा, शान्तिः, समता च इति मूल्येषु आधारितः जीवनदर्शनस्य स्मरणदिनम् अस्ति।