(सप्तदिवसीयं संस्कृतसम्भाषणशिविरं सम्पन्नम्)
वार्ताप्रेषकः- डॉ. मूलचन्द्रशुक्लः
रामनगरम्। रामनगरे संस्कृतभारत्याः उत्तराञ्चलप्रान्तस्य समायोजितं सप्तदिवसीयं संस्कृतसम्भाषणशिविरम्।अद्य पीएम-श्री-राजकीयबालिकान्तरविद्यालयस्य नेताजीसुभाषचन्द्रबोस-छात्रावासनिविष्टे सभागारे सानन्दं सम्पन्नम् । समापनावसरे अतिथिभिः प्रतिभागिभ्यः पुरस्काराः प्रमाणपत्राणि च वितरितानि।
समापनसत्रे मुख्यातिथिरूपेण पीएनजी-राजकीयस्नातकोत्तरमहाविद्यालयरामनगरस्य प्राचार्यः प्रो० मोहनचन्द्रपाण्डेयः उपस्थित आसीत्। स्वीयसम्बोधने तेनोक्तं यत्— संस्कृतभाषायां समस्तं ज्ञानविज्ञानं समाहितम् अस्ति। अद्यतनवैज्ञानिकयुगेऽपि संस्कृतस्य महत्त्वं निरन्तरं वर्धते। समाजः, अर्थशास्त्रम्, विज्ञानम्, सङ्गीतम्, नृत्यम्, कला, दर्शनं च— एतेषां सर्वेषां मूलाधारः संस्कृतमेव वरीवर्ति। संस्कृतं विना भारतीयज्ञानपरम्परायाः सम्यगवगमनं न सम्भवति।
विशिष्टातिथिरूपेण उत्तराखण्डविद्यालयीयशिक्षापरिषदः संयुक्तसचिवः श्री सी०पी० रतूडी महोदयः अपि उपस्थितः। सः स्वीयभाषणे उक्तवान् यत् भाषायाः जीवन्तता तस्याः व्यवहारसम्भाषणे एव निहिता भवति। अतः संस्कृतभाषायाः संरक्षणाय संवर्धनाय च एतादृशानां सम्भाषणशिविराणामत्यन्तमावश्यकता वर्तते।
कार्यक्रमस्य प्रारम्भे शिविरसंयोजकः डा० सत्यप्रकाशमिश्रः पुष्पगुच्छैः सर्वेषामतिथीनां हार्दिकं स्वागतं कृत्वा शिविरस्य विविधोपलब्धीनां विवेचनम् अकरोत्। डा० आशुतोषसतेः सुचारुसञ्चालने सम्पन्ने अस्मिन् समारोहॆ शिविरस्य प्रतिभागिभिः संस्कृतसम्भाषणाधारिताः विविधाः सांस्कृतिककार्यक्रमाः प्रस्तुताः, येषां माध्यमेन शिविरस्य अभ्यासफलानि सजीवतया प्रदर्शितानि।
रामनगरमहाविद्यालयस्य संस्कृतविभागप्रभारी सहायकप्राध्यापकः अतिथिवक्ता च डा० मूलचन्द्रशुक्लः स्वभाषणे उक्तवान् यत् यदि छात्राः दैनिकजीवने संस्कृतसम्भाषणस्य प्रयोगं कुर्वन्ति तर्हि संस्कृतभाषायाः व्यवहारिकविकासः स्वयमेव भविष्यति। सम्भाषणमेव संस्कृतप्रचारप्रसारयोः सर्वाधिकं प्रभावकरं साधनम् इति।
विद्यालयीयशिक्षापरिषदः शोधाधिकारी डा० रामचन्द्रपाण्डेयः छात्रान् प्रेरयन् उक्तवान् यत् संस्कृतसम्भाषणेन छात्राः समाजे सांस्कृतिकचेतनायाः प्रसारं करिष्यन्ति इति दृढो विश्वासः अस्ति।
अन्ते छात्रावासस्य सञ्चालिका श्रीमती सीमा आर्या समेषामतिथीनां सहभागिनां च धन्यवादज्ञापनम् अकरोत्। अस्मिन् समारोहॆ दर्शनसिंहः, पूजा रावत, मानसी अग्रवालः, अञ्जलि-अधिकारी, स्नेहा, मेघाराणा, शिवानी, सुनीता, नीलमवर्मा इत्यादयः बहवः गणमान्या उपस्थिता आसन्।











