(वार्ताहरौ- प्रवेशकुमारशुक्ल:, शिवमत्रिपाठि, हरिद्वारम्)
उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः। ज्येष्ठशुक्लप्रतिपदारभ्य आषाढकृष्णसप्तमीपर्यन्तम्(१५ जूनतः ७ जुलाई २०२६ पर्यन्तम्) प्रचलिष्यति अस्य प्रशिक्षणवर्गस्य मुख्योद्देश्यं संस्कृतशिक्षणस्य गुणवत्तावर्धनमध्यापनकौशलस्य परिष्कारः, शिक्षणप्रक्रियायां नवदृष्टेः समावेशः तथा कुशलसंस्कृतशिक्षकनिर्माणं च वर्तते।
कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलपाठेन वाग्देव्या: समर्चनेन च सम्पन्नः। तदनन्तरं दीपप्रज्वलनपूर्वकमुद्घाटनसत्रस्यौपचारिकसत्रम् आरब्धम्। प्रास्ताविकभाषणे डा. विश्वजित्प्रामाणिकमहोदयाः संस्कृताध्ययनकेन्द्रस्य कार्यपरिकल्पनां, प्रशिक्षणवर्गस्य प्रयोजनं तथा भावीकार्यदिशां च सम्यक् प्रतिपादितवन्तः।
उद्घाटनसत्रस्य अध्यक्षतां वहन्तः मुक्तस्वाध्यायपीठस्य निदेशकाः प्रो. रत्नमोहनझामहोदयाः स्वीयाध्यक्षीयोद्बोधने अवदन् यत् शिक्षकस्य जीवनं समाजस्य मार्गदर्शकरूपेण परिगण्यते। आदर्शशिक्षकः विद्यानिष्ठः, चरित्रसम्पन्नः, अनुशासनशीलः, कर्तव्यपरायणः, विद्यार्थिहितरतश्च भवितुमर्हति। शिक्षणकार्यं केवलं ज्ञानसंप्रेषणस्य साधनं न, अपितु संस्कारनिर्माणस्य तथा व्यक्तित्वविकासस्य आधारभूतप्रक्रियेति तैः प्रतिपादितम्।
मुख्यातिथिरूपेण उपस्थिताः उत्तराखण्डशासनस्य संस्कृतशिक्षासचिवाः श्री दीपककुमारगैरोलामहोदयाः संस्कृतभाषायाः गौरवं महत्त्वं च विवेचयन्तः उक्तवन्तः यत् संस्कृतं भारतीयसंस्कृतेः प्राणतत्त्वम् वर्तते । अस्यां भाषायां निहितं ज्ञानवैभवं मानवसमाजस्य अमूल्यधरोहररूपेण विद्यते। संस्कृतस्य संरक्षणं, संवर्धनं च सांस्कृतिकस्वाभिमानस्य दृढीकरणाय अत्यावश्यकमिति तैः प्रतिपादितम्।
कार्यक्रमे सन्निधि: कुर्वन्तः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रो. रमाकान्तपाण्डेयमहोदयाः प्रशिक्षणवर्गस्य उपादेयताम् अवदन् यत् युगानुरूपशिक्षणपद्धतीनां ज्ञानं तथा अध्यापनदक्षतायाः अभिवृद्धिः शिक्षकेभ्यः अनिवार्या विद्यते । एतादृशाः प्रशिक्षणवर्गाः शिक्षकेषु व्यावसायिकदक्षतामात्मविश्वासं तथा शैक्षिकप्रतिबद्धतां वर्धयन्ति इति तै: प्रतिपादम्।
सारस्वतातिथिरूपेण उपस्थिताः उत्तराखण्ड आयुर्वेद विश्वविद्यालयस्य कुलपतिचराः प्रो. सुनीलकुमारजोशिमहोदयाः संस्कृतभाषायाः वैज्ञानिकस्वरूपं, सार्वभौमिकप्रासङ्गिकतां तथा मूल्यपरकजीवननिर्माणे तस्याः योगदानं विशदयन्तः अवदन् यत् संस्कृतं न केवलं भाषारूपेण, अपितु जीवनदर्शनरूपेण अपि मानवसमाजं दिशानिर्देशं करोति। आदर्शशिक्षकः स्वाचरणेन विद्यार्थीन् प्रेरयन् समाजे सद्भावनां, नैतिकमूल्यानि तथा कर्तव्यबोधं च प्रतिष्ठापयतीति तैः अभिमतम्।
कार्यक्रमस्य कुशलसञ्चालनं प्रो. अरविन्दनारायणमिश्रमहोदयाः अकुर्वन्। अन्ते उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलसचिवः श्रीदिनेशकुमारमहोदयः समागतानां सर्वेषामतिथीनां, विद्वज्जनानां, प्रशिक्षकाणां तथा प्रतिभागिनां कृतज्ञतां प्रकटयन् धन्यवादज्ञापनमकरोत्। : प्रशिक्षका: रोशनमहोदय:, काथरुपा:,
पियालीसाश्मल, नाडूगोपाल:, बप्पादास: सागरचौधरी , पिंकीदोलई, विष्णुप्रियामहोदया:
पलकमहोदया: तत्रोपस्थिता आसन्। शान्तिमन्त्रस्य सस्वरपाठेन उद्घाटनसत्रस्य सम्पूर्तसत्रमभवत्।











