अयोध्यायां राममन्दिरस्य दानराशिविषये कथितानियमिततायाः अन्वेषणम् — विशेषान्वेषणदलस्य (SIT) कार्यवाही आरब्धा

अयोध्या, जून् २२। उत्तरप्रदेशसर्वकारेण नियुक्तं त्रिसदस्यात्मकं विशेषान्वेषणदलम् (Special Investigation Team – SIT) अयोध्यास्थितं श्रीरामजन्मभूमिमन्दिरम् आगत्य भक्तैः समर्पितानां दानराशीनां कथितानियमितताविषये अन्वेषणकार्यं प्रारब्धवान्। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य अनुरोधानुसारं राज्यसर्वकारेण एतत् विशेषदलम् नियुक्तम्। प्रारम्भिकप्रतिवेदनं सप्तदिनेषु तथा अन्तिमप्रतिवेदनं पञ्चदशदिनेषु समर्पयितुम् आदेशः दत्तः।
अस्मिन् विशेषान्वेषणदले लखनऊमण्डलायुक्तः विजयविश्वासपन्तः, पुलिसमहानिरीक्षकः किरण् एस्, वित्तविभागस्य विशेषसचिवः नीलरतनः च सदस्यत्वेन नियुक्ताः सन्ति। दलं मन्दिरस्य दानसङ्ग्रहप्रक्रियाम्, लेखापरीक्षणव्यवस्थां, धनव्ययस्य अभिलेखांश्च सूक्ष्मतया परीक्षते।
अयं विवादः समाजवादीपक्षस्य अध्यक्षेन तथा उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणा अखिलेशयादवेन कृतैः आरोपैः आरब्धः। तेन उक्तं यत् राममन्दिरे भक्तैः समर्पितेषु दानेषु कोटिशः रूप्यकाणि लुप्तानि सन्ति। एषः विषयः कोटिशः भक्तानां श्रद्धया सम्बद्धः अत्यन्तसंवेदनशीलः इति सः अवदत्। दानगणनासम्बद्धानि सीसीटीवी-दृश्यानि सार्वजनिकानि कर्तुं न्यासः तथा राज्यसर्वकारः किमर्थं न सज्जौ इति प्रश्नमपि तेन उपस्थितः।
एतान् आरोपान् श्रीरामजन्मभूमितीर्थक्षेत्रन्यासः निराधारान् इति प्रत्याख्यातवान्। न्यासस्य महासचिवः चम्पतरायः उक्तवान् यत् नियमितलेखापरीक्षणेषु कापि विसङ्गतिः न दृष्टा। तेन स्पष्टीकृतं यत् न्यासस्य प्रतिनिधिभिः तथा भारतीय-स्टेट्-बैङ्कस्य अधिकारिभिः समये समये लेखापरीक्षणं क्रियते, तत्र अद्यावधि किमपि संशयास्पदं न प्राप्तम्।
तथापि विवादः शनैः शनैः अधिकं गम्भीरः अभवत्। अयोध्यायाः भाजपानेता रजनीशसिंहः प्रधानमन्त्रिणं नरेन्द्रमोदिनम् उद्दिश्य द्वौ पत्रौ प्रेषितवान्। तयोः पत्रयोः सः राममन्दिरस्य स्थापनातः आरभ्य प्राप्तानां दानराशीनां सार्वजनिकविवरणस्य प्रकाशनम् अपेक्षितवान्। तेन लिखितं यत् राममन्दिरः कोटिशः जनानां श्रद्धाकेन्द्रम् अस्ति, अतः दानसम्बद्धेषु सर्वेषु विषयेषु पूर्णपारदर्शिता आवश्यकाऽस्ति। भारतस्य विदेशेषु च स्थिताः भक्ताः स्वविश्वासेन स्वपरिश्रमार्जितं धनं मन्दिरनिर्माणार्थं समर्पितवन्तः। अतः धनस्य, भूषणानां तथा अन्यदानवस्तूनां उपयोगः कथं जातः इति ज्ञातुं प्रत्येकस्य भक्तस्य नैतिकः लोकतान्त्रिकश्च अधिकारः अस्ति इति तेन प्रतिपादितम्।
विवादः तदा अधिकं प्रबलः अभवत् यदा पूर्वभाजपासांसदः बृजभूषणशरणसिंहः दानराशेः दुरुपयोगसम्बद्धानि कतिचन विषयान् स्वयम् अवगतवान् इति उक्तवान्, किन्तु विस्तृतविवरणं प्रदातुं न इच्छितवान्। भाजपायाः वरिष्ठनेता विनयकटियारः अपि एतत् प्रकरणं गम्भीरम् इति वर्णयन् दोषिणां विरुद्धं कठोरकार्यवाह्याः अपेक्षां कृतवान्। राममन्दिरान्दोलने सहस्रशः जनाः त्यागं कृतवन्तः, अनेकाः कारागारमपि गतवन्तः, अतः दानधनस्य दुरुपयोगः कदापि न क्षन्तव्यः इति तेन उक्तम्।
अन्वेषणस्य मध्ये पुलिसेन मन्दिरसम्बद्धौ द्वौ अधिकारिणौ अपि गृहीतौ। तयोः एकस्य निवासात् दशलक्षरूप्यकाणां नगदराशिः प्राप्ता इति अधिकारिभिः सूचितम्। अस्य घटनया सम्पूर्णप्रकरणे जनसन्देहः अधिकः जातः, यद्यपि एतस्य धनस्य स्रोतः अद्यापि अनुसन्धानाधीनः अस्ति।
उल्लेखनीयम् अस्ति यत् २०२४ तमस्य वर्षस्य जनवरीमासे श्रीराममन्दिरस्य उद्घाटनानन्तरं भक्तानां दानप्रवाहः अत्यधिकः अभवत्। उद्घाटनदिने एव प्रायः त्रयः कोटयः सप्तदशलक्षरूप्यकाणि दानरूपेण प्राप्तानि। उद्घाटनानन्तरस्य प्रथमैकादशदिने प्रायः एकादशकोटिरूप्यकाणि दानरूपेण प्राप्तानि, प्रतिदिनं प्रायः एककोटिरूप्यकाणां दानं लब्धम् इति न्यासेन पूर्वमेव प्रकाशितम्।
न्यासस्य वार्षिकप्रतिवेदनानुसारं २०२४–२५ वित्तवर्षे न्यासस्य कुलायः प्रायः त्रिशतसप्तविंशत्यधिक-कोटिरूप्यकाणि अभवत्। तेषु दानरूपेण १५३ कोटिरूप्यकाणि, निवेशेषु प्राप्तेन व्याजेन च १७३ कोटिरूप्यकाणि प्राप्तानि। एतादृशस्य विशालस्य धनसङ्ग्रहस्य कारणात् सम्पूर्णलेखाव्यवस्थायाः पारदर्शिता, उत्तरदायित्वं तथा नियमितलेखापरीक्षणम् अत्यन्तावश्यकम् इति विभिन्नैः राजनैतिकैः सामाजिकैश्च पक्षैः प्रतिपाद्यते।
अधुना विशेषान्वेषणदलस्य प्रतिवेदनम् एव अस्य प्रकरणस्य यथार्थस्थितिं प्रकाशयिष्यति। दानराशेः दुरुपयोगः वास्तवतः अभवत् उत आरोपाः निराधाराः सन्ति इति विषये देशस्य कोटिशः रामभक्तानां दृष्टिः अन्वेषणपरिणामेषु एव केन्द्रिता वर्तते।