नवदेहली, जून् २२। प्रश्नपत्रस्य पूर्वप्रसारणस्य (पेपर-लीक्) आरोपानन्तरं निरस्तायाः नीट्-यूजी (NEET-UG) परीक्षायाः पुनर्परीक्षा रविवासरे देशस्य विविधेषु परीक्षा-केन्द्रेषु कडकसुरक्षाव्यवस्थायाः मध्ये निर्विघ्नतया सम्पन्ना। अस्यां पुनर्परीक्षायां देशभरात् विंशतिलक्षाधिकाः परीक्षार्थिनः सहभागिनः अभवन्।
राष्ट्रीयपरीक्षणसंस्थायाः (NTA) महासञ्चालकः अभिषेकसिंहः उक्तवान् यत् सम्पूर्णा परीक्षा कस्यापि विघ्नस्य विना सफलतया सम्पन्ना। तेन उक्तं यत् केवलं सप्तत्रिंशद्दिनेषु पुनर्परीक्षायाः विशालं आयोजनं सम्पन्नम्। परीक्षाफलानि अपि यथाशीघ्रं प्रकाशितानि भविष्यन्ति, अपेक्षातः अपि शीघ्रं परिणामप्रकाशनस्य प्रयत्नः क्रियते इति तेन सूचितम्।
महासञ्चालकेन अपि ज्ञापितं यत् केचन जनाः मिथ्याप्रवेशपत्राणि तथा कूट-आधारपत्राणि उपयुज्य अन्येषां स्थाने परीक्षा दातुं प्रयत्नवन्तः। किन्तु जैविकपरिचयपरीक्षणेन (Biometric Verification) मुखपरिचयप्रमाणीकरणेन (Face Authentication) च ते सर्वे समये एव अभिज्ञाताः, तेषां प्रयत्नाः विफलाः अभवन्। एतेषां घटनानां विस्तृतविवरणं सर्वेभ्यः परीक्षा-केन्द्रेभ्यः सङ्गृह्य शीघ्रमेव प्रकाशितं भविष्यतीति तेन उक्तम्।
परीक्षा निर्विघ्नतया सम्पन्ना इति विषये बहवः परीक्षार्थिनः सन्तोषं प्रकटितवन्तः, तथापि प्रश्नपत्रस्य कठिनताविषये केचन असन्तोषम् अपि व्यक्तवन्तः। बहवः विद्यार्थिनः अवदन् यत् एतत् प्रश्नपत्रं गतमासस्य तृतीयदिनाङ्के आयोजितात्, पश्चात् निरस्तात् परीक्षाप्रश्नपत्रात् अधिकं कठिनम् आसीत्। विशेषतः भौतिकविज्ञानस्य प्रश्नाः मध्यमकठिनाः अथवा अत्यन्तकठिनाः आसन्निति अधिकांशैः परीक्षार्थिभिः अभिप्रेतम्।
परीक्षार्थिभिः परीक्षायाः कृते प्रदत्तः अतिरिक्तः पञ्चदशमिनिटात्मकः समयः प्रशंसितः। परन्तु देशस्य कतिपयेषु परीक्षा-केन्द्रेषु समयात् विलम्बेन आगताः केचन परीक्षार्थिनः अपराह्णे सार्धैकवादनानन्तरं प्रवेशं न प्राप्नुवन्, अतः ते परीक्षायां सहभागित्वात् वञ्चिताः।
राष्ट्रीयपरीक्षणसंस्था परीक्षायाः सफलसमापनं महत्त्वपूर्णसफलतारूपेण पश्यति। इदानीं सर्वेषां दृष्टिः शीघ्रं प्रकाश्यमानेषु नीट्-यूजी परीक्षाफलेषु एव केन्द्रिता वर्तते।











