नवदेहली, जून् २१। द्वादशः अन्तरराष्ट्रीययोगदिवसः रविवासरे भारतस्य सर्वेषु राज्येषु विदेशेषु च उत्साहपूर्वकं समाचरितः। अस्मिन् वर्षे “स्वस्थवृद्धावस्थायै योगः” (Yoga for Healthy Ageing) इति मूलविषयः निर्धारितः, यस्य उद्देश्यं शारीरिकस्वास्थ्यस्य, मानसिककल्याणस्य, भावनात्मकस्थैर्यस्य तथा स्वस्थजीवनशैल्याः संवर्धनम् अस्ति।
प्रधानमन्त्री नरेन्द्रमोदी कोलकातानगरस्य रेड् रोड्-स्थले आयोजितस्य मुख्यकार्यक्रमस्य नेतृत्वम् अकरोत्। तेन सह प्रायः पञ्चत्रिंशत्सहस्राधिकाः जनाः योगाभ्यासे सहभागिनः अभवन्। राष्ट्रम् उद्दिश्य सम्बोधने प्रधानमन्त्री उक्तवान् यत् जून्-मासस्य एकविंशतितमः दिवसः पृथिव्याः दीर्घतमदिनेषु अन्यतमः अस्ति, किन्तु योगदिवसस्य प्रभावेण अयं दिवसः अधुना विश्वस्य बृहत्तमः सामूहिकोत्सवः अपि अभवत्। सः अवदत्— “योगः जनान् एकसूत्रे बध्नाति। योगः केवलं शारीरिकव्यायामः न, अपि तु मानवजीवनस्य आध्यात्मिकस्य सांस्कृतिकस्य च अभिव्यक्तिः अस्ति। अस्य लाभः सर्वेषां वयःसमूहानां कृते समानरूपेण भवति।”
प्रधानमन्त्री स्वभाषणे रामकृष्णपरमहंसम्, स्वामीविवेकानन्दम्, महर्षिमरविन्दम् तथा लाहिडीमहाशयम् अपि स्मृतवान्। तेषां योगपरम्परायाः प्रसारे योगदानं प्रशंसन् सः उक्तवान् यत् एते महापुरुषाः भारतीययोगपरम्परां वैश्विकस्तरं प्रति नीतवन्तः।
राष्ट्रपतिः द्रौपदीमुर्मू मध्यप्रदेशस्य जबलपुरनगरे आयोजिते राज्यस्तरीये योगकार्यक्रमे सहभागित्वं कृत्वा योगासनानि अकरोत्। स्वसन्देशे सा उक्तवती यत् योगः भारतस्य सांस्कृतिकविरासतायाः अमूल्यः उपहारः अस्ति, यः सम्प्रति विश्वे शान्तेः, सौहार्दस्य तथा मानवकल्याणस्य दिशि महत्त्वपूर्णं योगदानं ददाति।
अन्तरराष्ट्रीययोगदिवसस्य उपलक्ष्ये नवदेहल्यां विदेशमन्त्री एस्. जयशङ्करः अपि विभिन्नदेशानां राजदूतैः कूटनीतिप्रतिनिधिभिश्च सह योगाभ्यासे सहभागित्वम् अकरोत्। अस्मिन्नवसरे आस्ट्रेलियादेशस्य उच्चायोगेन तथा फ्रान्सदेशस्य दूतावासेन विशेषसन्देशयुक्तानि दृश्यचित्राणि (वीडियो) अपि प्रसारितानि।
देशस्य सर्वेषु राज्येषु विद्यालयेषु, विश्वविद्यालयेषु, सैनिकप्रतिष्ठानेषु, शासकीयकार्यालयेषु, उद्यानेषु तथा सार्वजनिकस्थलेषु सहस्रशः जनाः योगाभ्यासे सहभागी अभवन्। विविधेषु कार्यक्रमेषु योगस्य शारीरिक-मानसिक-आध्यात्मिकलाभाः प्रकाशिताḥ।
एवं द्वादशः अन्तरराष्ट्रीययोगदिवसः “स्वस्थवृद्धावस्थायै योगः” इति सन्देशं विश्वे प्रसारयन् व्यापकजनसहभागितया सफलतया समाचरितः।












Nice