हैदराबाद, जुलै १८। भारतस्य अन्तरिक्षक्षेत्रे ऐतिहासिकं पदं न्यस्तम्। हैदराबादस्थितया स्काईरूट एयरोस्पेस इति निजीसंस्थया भारतस्य प्रथमः निजी-कक्षीय-प्रक्षेपकः ‘विक्रम–१’ शनिवासरे, जुलै-मासस्य अष्टादशे दिने, सफलतया प्रक्षिप्तः। एषः प्रक्षेपण-परीक्षणः प्रथमप्रयत्ने एव सम्पूर्णतया सफलः अभवत्। अस्य प्रक्षेपकस्य निर्माणं, परीक्षणं, प्रक्षेपणव्यवस्थापनं च सर्वं संस्थयैव कृतम्, केवलं प्रक्षेपणपीठम् (Launch Pad) भारतीय-अन्तरिक्ष-अनुसन्धान-संस्थायाः (ISRO) अधीनं सतीशधवन-अन्तरिक्षकेन्द्रम् आसीत्।
स्काईरूट एयरोस्पेस इति संस्था वर्षे २०१८ तमे स्थापिताभवत्। अस्याः संस्थायाः संस्थापकौ पवनकुमार-चन्दना तथा नाग-भरत-डाका इति द्वौ मित्रौ स्तः। उभावपि पूर्वं इस्रो-संस्थायां कार्यरतौ आस्ताम्। पश्चात् स्वकीयेन नवोन्मेषेण भारतस्य निजी-अन्तरिक्ष-उद्योगस्य विकासाय एतां संस्थां स्थापितवन्तौ।
अयं ‘विक्रम–१’ नामकः प्रक्षेपकः आन्ध्रप्रदेशस्य श्रीहरिकोटा-स्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् मध्याह्ने १२:०५ वादने प्रक्षिप्तः। एषः प्रक्षेपकः सफलतया पृथिव्याः ४५० किलोमीटर-उन्नतां निम्नवृत्ताकारकक्षाम् (Low Earth Orbit) प्राप्तवान्। एतत् भारतस्य अन्तरिक्षविज्ञानक्षेत्रे महती उपलब्धिः इति वैज्ञानिकैः अभिप्रेतम्।
उल्लेखनीयं यत् वर्षे २०२२ तमे स्काईरूट-संस्थया ‘विक्रम–एस्’ इति उपकक्षीय-प्रक्षेपकः (Sub-orbital Rocket) प्रक्षिप्तः आसीत्, यः ८९.५ किलोमीटर-पर्यन्तम् उन्नतिं प्राप्तवान्। अधुना ‘विक्रम–१’ कक्षीय-प्रक्षेपकत्वेन पृथिव्याः परितः परिभ्रमणयोग्यां गतिं प्राप्तवान्।
वैज्ञानिकानां मते, यदा कश्चन प्रक्षेपकः पृथिव्याः परितः निरन्तरं परिभ्रमितुं समर्थां गतिं—प्रायः २८,००० किलोमीटर-प्रतिघण्टा अथवा ७.८ किलोमीटर-प्रतिसेकण्डम्—प्राप्नोति, तदा सः कक्षीय-प्रक्षेपकः (Orbital Rocket) इति कथ्यते। यः केवलम् अन्तरिक्षसीमां गत्वा पुनः पृथिवीं प्रत्यागच्छति, सः उपकक्षीय-प्रक्षेपकः (Sub-orbital Rocket) इति निर्दिश्यते।
अस्य प्रक्षेपणस्य नाम ‘मिशन आगमन’ इति निर्धारितम्। अस्मिन् अभियाने विज्ञान-प्रौद्योगिकी-कलाक्षेत्रसम्बद्धानि विविधानि भाराणि (Payloads) अपि अन्तरिक्षे प्रेषितानि। तेषु ग्रह स्पेस, कॉस्मोसर्व स्पेस, डीक्यूब्ड इत्यादीनां प्रौद्योगिकी-सम्बद्धानि उपकरणानि समाविष्टानि आसन्। स्काईरूट-संस्थायाः स्वकीयम् अनुसन्धान-भारम् अपि प्रेषितम्।
विशेषाकर्षणरूपेण कॉस्मिक ब्लूम इति नाम्ना प्रसिद्धा कलाकृतिः तथा अष्टादश-कैरेट्-सुवर्णनिर्मितः सूक्ष्म-प्रक्षेपक-आकारः कलावस्तुः अपि अन्तरिक्षं प्रेषितः। अस्मिन् सूक्ष्मशिल्पे भारतस्य विख्यातवैज्ञानिकानां सर् सी. वी. रमणः, डाॅ. विक्रम-साराभाई, तथा डाॅ. ए. पी. जे. अब्दुल् कलामः इत्येषां सूक्ष्मप्रतिमाः उत्कीर्णाः सन्ति। एतदतिरिक्तं भारतस्य प्रधानमन्त्री श्रीनरेन्द्रमोदी-महाभागस्य हस्तलिखितं ‘वन्दे मातरम्’ इति शब्दयुक्तं पोस्टकार्डम् अपि अन्तरिक्षे प्रेषितम्।
‘विक्रम–१’ सम्पूर्णतया कार्बन-कम्पोजिट् इति अतीवलघु-दृढपदार्थेन निर्मितः भारतस्य प्रथमः कक्षीय-प्रक्षेपकः अस्ति। कार्बन-तन्तवः इस्पातात् प्रायः पञ्चगुणं लघवः भवन्ति। अतः प्रक्षेपकस्य भारः न्यूनः भवति, इन्धनस्य कार्यक्षमता च वर्धते।
अस्य प्रक्षेपकस्य ऊर्जाप्रणाली अत्याधुनिकी अस्ति। अस्मिन् त्रयः घन-इन्धन-चरणाः (Solid Fuel Stages) सन्ति, ये क्रमशः प्रज्वलित्वा प्रक्षेपकं पृथिवीतलात् अन्तरिक्षसीमां प्रति नयन्ति। तदनन्तरं उपरिस्थितः द्रव-इन्धनयुक्तः कक्षीय-समायोजन-मॉड्यूलः (Liquid Orbital Adjustment Module) कार्यं करोति। एषः उपग्रहस्य दिशानिर्देशं, गतिनियन्त्रणं तथा निर्धारितकक्षायां तस्य यथास्थापनं च सुनिश्चितं करोति।
अस्य सफलप्रक्षेपणेन भारतस्य निजी-अन्तरिक्ष-उद्योगस्य सामर्थ्यं विश्वपटलावरि पुनरपि प्रकाशं गतम्। वैज्ञानिकाः मन्यन्ते यत् एषा उपलब्धिः भविष्ये स्वदेशीय-अन्तरिक्ष-अनुसन्धानस्य, उपग्रह-प्रक्षेपणस्य तथा वैश्विक-वाणिज्यिक-अन्तरिक्ष-सेवानां विकासे नूतनं युगं प्रारम्भयिष्यति।











