इस्रो-संस्थायां मेधा-पलायनं रोद्धुं सर्वकारस्य कठोरं पादक्षेपम्

नवदेहली — भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य (ISRO) वैज्ञानिकानां तान्त्रिक-कर्मचारिणां च पलायनं रोद्धुं भारतसर्वकारेण एकः महत्त्वपूर्णः निर्णयः स्वीकृतः। प्रतिष्ठितस्य ‘गगनयान’-अभियानस्य अन्येषामपि मुख्याभियानानां च कार्येषु संलग्नानां ‘ग्रुप ए’ (Group ‘A’) श्रेणीयुक्तानां वैज्ञानिकानां स्वेच्छा-सेवानिवृत्तिः (VRS) वा त्यागपत्रं वा इदानीं सामान्यरूपेण न अङ्गीक्रियते।
अन्तरिक्षविभागेन (Department of Space) स्पष्टानि निर्देशानि जारीकृतानि यत् राष्ट्रियमहत्त्वपूर्णपरियोजनासु कार्यरतानां वैज्ञानिकानां निष्कासनं इदानीं सुलभं न भविष्यति।
प्रमुखविषयाः (मुख्यांशाः)
पलायनरोधः: गगनयान-अभियाने संलग्नानां वैज्ञानिकानां त्यागपत्राणि सामान्यादेशेन न स्वीक्रियन्ते।
निर्णयप्रक्रिया: सर्वेषां त्यागपत्राणां अन्तिमनिर्णयः केन्द्रिय-अन्तरिक्षविभागेन एव क्रियते।
निजीक्षेत्रस्य प्रभावः: भारते निजी-अन्तरिक्षक्षेत्रस्य (Private Space Sector) तीव्रविकासात् वैज्ञानिकानां मागः वर्धितः।
कर्मचारिणां न्यूनता: इस्रो-संस्थायाम् नूतनकर्मचारिणां नियुक्तिः न्यूनीभूता, येन कार्यदबावः वर्धितः।
किम् अस्ति कारणम्?
भारते निजी-अन्तरिक्ष-क्षेत्रं तीव्रगत्या विकसति। सर्वकारेण निजीसंस्थाभ्यः उपग्रहपरियोजनाः तथा इस्रो-संस्थायाः प्रक्षेपणास्त्र-तन्त्रांशस्य (Launch Vehicle Technology) हस्तान्तरणं प्रारब्धम्। अनेन कारणेन अनुभवीनां अन्तरिक्ष-विशेषज्ञानां मागः निजीक्षेत्रे अत्यधिकः जातः, येन इस्रो-संस्थायाः वैज्ञानिकाः संस्थां त्यक्त्वा गच्छन्ति। अन्तरिक्षविभागानुसारं, अनेन राष्ट्रियमहत्त्वपूर्णकार्येषु प्रतिकूलः प्रभावः पतति।
नवीनं नियमम्
अन्तरिक्षविभागस्य कार्यालयादेशानुसारम्, इस्रो-केन्द्राणां निदेशकाः वैज्ञानिकानां त्यागपत्राणि स्वतः अङ्गीकर्तुं न शक्नुवन्ति। तानि त्यागपत्राणि स्वकीय-परामर्शेण सह अन्तरिक्षविभागाय प्रेषितव्यानि भविष्यन्ति, यत्र अन्तिमः निर्णयः भविष्यति।
पूर्वम् इस्रो-प्रशासनेन केन्द्राणां आन्तरिक-स्थानान्तरणम् (Inter-centre transfers) अपि प्रतिबन्धितम् आत्। नाम-गोपन-शर्तेन एकेन अधिकारिणा उक्तं यत्—
“नूतनानां नियुक्तीनां अभावात् संस्थायां कर्मचारिणां तीव्रा न्यूनता अस्ति, यथाकथञ्चित् कार्यं प्रचलति।”
पूर्वतनानां वैज्ञानिकानां चिन्ता
सर्वकारस्य इमं निर्णयं प्रति इस्रो-संस्थायाः पूर्वतनाः वरिष्ठाः अधिकारिणः असन्तोषं प्रकटितवन्तः। एकस्य पूर्वतन-अधिकारिणः मते—
“प्रशासनिक-प्रतिबन्धैः समस्यायाः समाधानं न भवति। एतादृशाः आदेशाः संस्थायाः आन्तरिक-दौर्बल्यं दर्शयन्ति। कर्मचारिणां संस्थात्यागस्य वास्तविकं कारणं अन्वेष्टव्यं, न तु तान् बलपूर्वकं रोद्धुं प्रयासः करणीयः।”
अन्येन एकेन अधिकारिणा उक्तं यत् वैज्ञानिकानाम् उत्साहवर्धनं नेतृत्वस्य दायित्वं भवति, केवलं नियमाः उत्साहं न्यूनीकुर्वन्ति।
इदानीं इस्रो-संस्था गगनयान-सदृशं महत्वाकाङ्क्षि-मानव-अन्तरिक्षयान-अभियानं प्रति पूर्णतया ध्यानाकर्षति। अस्मिन् समये कुशलानां वैज्ञानिकानां रक्षणं संस्थायाः पुरतः एकं महत् आव्हाहनं वर्तते। सर्वकारस्य एषः आदेशः दर्शयति यत् राष्ट्रिय-सुरक्षा-दृष्ट्या अन्तरिक्ष-अभियानानां कृते वैज्ञानिकानां योग्यता कियती महत्त्वपूर्णा अस्ति।