सत्यधर्मस्य महत्त्वम् (बाल कथा )

प्राचीनकाले भारतदेशे बालकाः गुरुकुलेषु निवसन्तः विद्यां अधीयन्ते स्म। ते केवलं ग्रन्थाध्ययनमेव न कुर्वन्ति स्म, अपि तु गुरोः सेवां, आश्रमस्य रक्षणं, स्वच्छतां, वृक्षारोपणं, गोसेवां, विविधकार्याणि च श्रद्धया सम्पादयन्ति स्म। गुरुकुलजीवनं शिस्तस्य, विनयस्य, परिश्रमस्य, सदाचारस्य च आदर्शं मन्यते स्म।
तस्मिन्नेव काले वरदराजः नाम कश्चन बालकः विद्याध्ययनार्थं गुरुकुलं प्रेषितः। सः स्वसहपाठिभिः सह स्नेहेन वसति स्म तथा गुरोः आज्ञां श्रद्धया पालयति स्म। किन्तु अध्ययनविषये सः अत्यन्तं मन्दग्रहणशक्तियुक्तः आसीत्। गुरुणा कथिताः पाठाः तस्य मनसि सुगमतया न प्रविशन्ति स्म। अतः अन्ये छात्राः तस्य उपहासं कुर्वन्ति स्म। एतेन वरदराजस्य मनः खिन्नं भवति स्म।
कालक्रमेण सर्वे सहपाठिनः अग्रिमकक्षां प्राप्तवन्तः, किन्तु वरदराजः तत्रैव स्थितः। गुरुः अपि बहून् प्रयत्नान् कृत्वा अन्ते दुःखेन तम् अवदत्— “वत्स वरदराज! मया सर्वे उपायाः कृताः। यदि त्वं गृहम् गच्छसि तथा स्वपरिवारस्य साहाय्यं करोषि, तर्हि भवतः समयः व्यर्थः न भविष्यति।”
गुरोः वचनं श्रुत्वा वरदराजः अत्यन्तं विषण्णः अभवत्। सः मनसि अचिन्तयत्— “विद्या कदाचित् मम भाग्ये नास्ति।” इति चिन्तयन् सः गुरुकुलात् स्वगृहं प्रति प्रस्थितः।
मार्गे मध्याह्नसमये तस्मै तीव्रा तृष्णा अभवत्। समीपे कश्चित् कूपः आसीत्, यत्र कतिचन महिलाः जलं गृह्णन्त्यः आसन्। वरदराजः तत्र गत्वा शिलायां गम्भीरान् रज्जुचिह्नान् अपश्यत्। सः आश्चर्येण महिलाः अपृच्छत्— “अम्ब! एतानि चिह्नानि केन निर्मितानि?”
एकया महिलया स्मितपूर्वकम् उक्तम्— “वत्स! एतानि चिह्नानि न कस्यचित् कृत्रिमनिर्माणानि। प्रतिदिनं जलाकर्षणसमये कोमला रज्जुः पुनः पुनः अत्र सञ्चरति। तस्याः निरन्तरस्पर्शेन दृढायामपि शिलायां गभीराणि चिह्नानि जातानि।”
एतत् श्रुत्वा वरदराजस्य अन्तःकरणे नूतना प्रेरणा जाता। सः अचिन्तयत्— “यदि कोमला रज्जुः पुनः पुनः सञ्चरन्ती कठोरशिलामपि परिवर्तयितुं शक्नोति, तर्हि अहम् अपि निरन्तराभ्यासेन विद्यां किमर्थं न अधिगच्छेयम्?”
सः त्वरया पुनः गुरुकुलं प्रत्यागच्छत्। गुरुः अपि तस्य दृढनिश्चयं दृष्ट्वा परमसन्तुष्टः अभवत्। ततः वरदराजः प्रतिदिनं श्रद्धया, धैर्येण, परिश्रमेण च अभ्यासं कृतवान्। शनैः शनैः तस्य बुद्धिः प्रगल्भा अभवत्, ज्ञानं च वर्धितम्।
कतिपयवर्षानन्तरं स एव पूर्वं मन्दबुद्धिरिति प्रसिद्धः बालकः संस्कृतव्याकरणस्य महान् विद्वान् अभवत्। तेन लघुसिद्धान्तकौमुदी, मध्यसिद्धान्तकौमुदी, सारसिद्धान्तकौमुदी तथा गीर्वाणपदमञ्जरी इत्यादयः प्रसिद्धाः ग्रन्थाः विरचिताः। तस्य जीवनं सर्वेभ्यः विद्यार्थिभ्यः प्रेरणास्रोतः अभवत्।